SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २७० त्वेकगुणकालकादि, तत्र एकगुणकालकः तारतम्येन कृष्ण-कृष्णतर-कृष्णतमादीनां यत आरभ्य प्रथमोत्कर्षवृत्तिः, द्विगुणकालकस्तु ततो मात्रया कृष्णतरः, एवं शेषेष्वपि भावनीयं यावदनन्तगुणकृष्ण इति। तत् पुनर्नामसामान्येनैव त्रिविधं प्राकृतशैलीमधिकृत्यस्त्रीलिङ्गनाम [ पुंलिङ्गनाम] नपुंसकलिङ्गनाम च। उदाहरणानि प्रकटार्थान्येव । सेत्तं तिणामे। [हे० २१७-२२६] से किं तं तिनामेत्यादि । यत एवेदं त्रिनाम तत एव त्रिविधं त्रिप्रकारम्, द्रव्यनामादिभेदात् । तत्र द्रवति गच्छति ताँस्तान् पर्यायान् प्राप्नोतीति द्रव्यम्, तस्य नाम । धर्मास्तिकाय इत्यादि, धर्मास्तिकायादयश्च प्राग् व्याख्याता एव । गुण्यन्ते संख्यायन्ते इति गुणास्तेषां नाम गुणनाम, वण्णनामे इत्यादि, तत्र वर्ण्यते अलङ्क्रियते वस्त्वनेनेति वर्ण: कृष्णादिः पञ्चधाप्रतीत एव, कपिशादयस्त्वेतत्संयोगेनैवोत्पद्यन्तेन पुन: 10 सर्वथा एतद्विलक्षणा इति नेहोदाहृताः। गन्ध्यते आघ्रायत इति गन्धस्तस्य नाम गन्धनाम, स च द्विविध: -सुरभिर्दुरभिश्च, तत्रसौमुख्यकृत् सुरभिः, वैमुख्यकृद् दुरभिः।अत्राप्युभयसंयोगजः पृथग् नोक्तः, एतत्संसर्गजत्वादेव भेदाविवक्षणात् । रस्यते आस्वाद्यत इति रसस्तस्य नाम रसनाम, स च तिक्त-कटु-कषाया-ऽम्ल-मधुरभेदात् पञ्चविधः । तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तिक्तो रसः, तथा च भिषक्शास्त्रम् - श्लेष्माणमरुचिं पित्तं तृषं कुष्ठं विषं ज्वरम्। हन्यात् तिक्तो रसो बुद्धेः कर्ता मात्रोपसेवितः।।१।।[ गलामयादिप्रशमनो मरिच-नागराद्याश्रितः कटुः । उक्तं च - कटुर्गलामयं शोफ हन्ति युक्त्योपसेवितः। दीपन: पाचको रुच्यो बृंहणोऽतिकफापहः ।।२।।[ 20 रक्तदोषाद्यपहर्ता बिभीतका-ऽऽमलक-कपित्थाद्याश्रितः कषायः। आह च रक्तदोषं कर्फ पित्तं कषायो हन्ति सेवितः। रूक्षः शीतो गुरुग्रा(ा)ही रोपणश्च स्वरूपतः।।३।।[ ] अग्निदीपनादिकृदम्लीकाद्याश्रितोऽम्लः, पठ्यते च - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy