________________
अनुयोगद्वारसूत्रम् [ सू० २१७-२२६]
२६९
पज्जवाणत्थिजतो पुग्गलत्थिकाएदंसेति, णधम्मादिएसु?।आचार्याऽऽह - सव्वदव्वाण गुण-पज्जवा अत्थि । के य ते ?, उच्यते - गतिगुणं धम्मदव्वं, ठितिगुणो अधम्मो, अवगाहगुणमागासं, उवजोगगुणा जीवा, वत्तणागुणो कालो, अगरुयलहुयपज्जवाअणंता एतेसिं । इह पोग्गलत्थिकाए इंदियपच्चखत्तणतो सुहपन्नवण-गहणत्थं दंसिता, ण दोसो। णामाभिधाणं, तंपायतसीलीए पायतलक्खणेणवा इमंतिधाभन्नति - इत्थीपुरिसोणपुंसगं 5 च । सेसं तिणामे कंठं।
[हा० २१७-२२६] से किं तं तिनामे ? अथ किं तत् त्रिनाम ? त्रिविधं प्रज्ञप्तम्, तद्यथा- द्रव्यनामगुणनाम पर्यायनाम। एतानि प्रायो ग्रन्थत एवभावनीयानि। नवरं द्रव्य-गुण-पर्यायस्वरूपम् – द्रव्यं धर्मास्तिकायादि, गुणा गत्यादयः, तद्यथागतिगुणोधर्मास्तिकाय:, स्थितिगुणोऽधर्मास्तिकाय:, अवगाहगुणमाकाशम्, उपयोगगुणा 10 जीवाः, वर्तनादिगुणः कालः, पुद्गलगुणा रूपादयः, पर्यायास्त्वमीषामगुरुलघवोऽनन्ताः। आह- तुल्ये द्रव्यत्वे किमितिसूत्रे पुद्गलास्तिकायगुण-पर्यायाणामेवरूपादीनामभिधानम्, न धर्मास्तिकायादीनाम् ? इति, उच्यते - इन्द्रियप्रत्यक्षत्वात् पुद्गलास्तिकायगुणादीनां सुप्रतिपादकत्वम्, न तथाऽन्येषामिति । इह च वर्णः पञ्चधा कृष्ण-नील-लोहित-पीतशुक्लाख्यः प्रतीत एव, कपिशादयस्तु संसर्गजा इति न तेषामुपन्यासः । गन्धो द्विधा - 15 सुरभिर्दुरभिश्च। तत्र सौमुख्यकृत् सुरभिः, दौमुख्यकृद् दुरभिः, साधारणपरिणामोऽस्पष्टदुर्ग्रह इति संसर्गजत्वादेव नोक्तः । एवं रसेष्वपि संसर्गजानभिधानं वेदितव्यम्, रसः पञ्चविधःतिक्त-कटु-कषाया-ऽम्ल-मधुराख्यः । श्लेष्मशमकृत् तिक्तः, वैशद्यच्छेदनकृत् कटुः, अन्नरुचिस्तम्भनकर्मा कषाय:, आश्रवण-क्लेदनकृदम्ल:, ह्लादन-बृंहणकृन्मधुरः, लवण: संसर्गजः। स्पर्शोऽष्टविध:- स्निग्ध-रूक्ष-शीतोष्ण-लघु-गुरु-मृदु-कठिनाख्यः। संयोगे 20 सति संयोगिनां बन्धकारणं स्निग्धः, तथैवाबन्धकारणं रूक्ष:, वैशद्यकृत् स्तम्भनस्वभाव: शीत:, मार्दव-पाककृदुष्णः, प्रायस्तिर्यगूर्द्धगमनहेतुर्लघुः, अधोगमनहेतुर्गुरुः, संनतिलक्षणो मृदुः, अनमनात्मकः कठिनः । संस्थानानि संस्थानानुपूर्त्यां पूर्वोक्तानि । पर्यायनाम
* (सुप्रतिपादत्वम्)?॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org