________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २६६
चेदंबलाका-पताकादीनांत्र्याद्यक्षरनिष्पन्ननाम्नामिति। तदेवं यदस्ति वस्तु तत्सर्वमेकाक्षरेण वा नाम्नाऽभिधीयतेऽनेकाक्षरेण वा, अतोऽनेन नामद्वयेन विवक्षितस्य सर्वस्यापि वस्तुजातस्याभिधानाद् द्विनामैतदुच्यते, द्विरूपं सत् सर्वस्य नाम द्विनाम, द्वयोर्वा नाम्नो: समाहारो द्विनाममिति।
एतदेव प्रकारान्तरेणाऽऽह - अहवा दुनामे इत्यादि, जीवस्य नाम जीवनाम, अजीवस्य नाम अजीवनाम।अत्रापि यदस्ति तेन जीवनाम्नाऽजीवनाम्नावाभवितव्यमिति जीवाजीवनामभ्यां विवक्षितसर्ववस्तुसङ्ग्रहोभावनीयः, शेषं सुगमम्।
पुनरेतदेवान्यथा प्राह - अहवा दुनामे इत्यादि, द्रव्यमित्यविशेषनाम जीवे अजीवे च सर्वत्र सद्भावात् । जीवद्रव्यमजीवद्रव्यमिति च विशेषनाम एकस्य जीव 10 एवान्यस्य त्वजीव एव सद्भावादिति । तत: पुनरुत्तरापेक्षया जीवद्रव्यमित्यविशेषनाम,
नारकस्तिर्यङित्यादितु विशेषनाम। पुनरप्युत्तरापेक्षया नारकादिकमविशेषनाम, रत्नप्रभायां भवो रात्नप्रभ इत्यादि तु विशेषनाम, एवं पूर्वं पूर्वमविशेषनाम उत्तरोत्तरं विशेषनाम सर्वत्र भावनीयम्, शेषं सुगमम्। नवरं सम्मूर्च्छन्ति तथाविधकर्मोदयाद्गर्भमन्तरेणैवोत्पद्यन्त इति
सम्मूर्छिमा: । गर्भे व्युत्क्रान्ति: उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिका:, उरसा भुजाभ्यां च 15 परिसर्पन्ति गच्छन्तीति विषधर-गोधा-नकुलादय: सामान्येन परिसर्पाः, विशेषस्तूरसा
परिसर्पन्तीत्युर:परिसर्पा:सोदय एव, भुजाभ्यां परिसर्पन्तीतिभुजपरिसर्पा: गोधा-नकुलादय एव। शेषं सुखोन्नेयम् । तदेवमुक्ता: सामान्य-विशेषनामभ्यां जीवद्रव्यस्य सम्भविनो भेदाः। साम्प्रतं प्रागुद्दिष्टमजीवद्रव्यमपि भेदतस्तथैवोदाहर्तुमाह - अविसेसिए अजीवदव्वे
इत्यादि गतार्थम् । तदेवं यदस्ति वस्तु तत् सर्वं सामान्यनाम्ना विशेषनाम्ना वा 20 अभिधीयेतैवमन्यत्रापि द्विनामत्वंभावनीयम् । सेतंदुनामे त्ति निगमनम्।
[सू० २१७] से किं तं तिनामे ? तिनामे तिविहे पण्णत्ते । तंजहादव्वणामे १, गुणणामे २, पज्जवणामे य ३।
[सू० २१८] से किं तं दव्वणामे ? दव्वणामे छव्विहे पण्णत्ते । 25 तंजहा- धम्मत्थिकाए १, अधम्मत्थिकाए २, आगासत्थिकाए ३,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org