SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० २०७] एगुत्तरिया छगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो । सेतं अणाणुपुव्वी । सेतं भावाणुपुव्वी । सेतं आणुपुव्वि त्ति पदं समत्तं । [चू० २०७] भावाणुपुव्विसुत्तं कंठं । आणुपुव्विपदं गतं । [हा० २०७] से किं तमित्यादि, तत्र कर्मविपाक उदय:, उदय एवौदयिकः, यद्वा तत्र भवस्तेन वा निर्वृत्त इत्येताः शेषभावेष्वपि व्युत्पत्तयो योजनीया इति । नवरमुपशमः मोहनीयस्य कर्मणोऽनुदयः । चतुर्णामष्टानां वा प्रकृतीनां क्षयः । कस्यचिदंशस्य क्षयः कस्यचिदुपशम इति क्षयोपशमौ । प्रयोग-विश्रसोद्भवः परिणामः । अमीषामेवैकादिसंयोगभवनं सन्निपात: । क्रमः पुनरमीषाम्, स्फुटनारकादिगत्युदाहरणभावतः प्रायस्तदन्याधारश्चप्रथममौदयिकः, ततः सर्वस्तोकत्वादौपशमिकः, ततस्तद्बहुत्वात् क्षायिकः, ततस्तद्बहुतरत्वादेवक्षायोपशमिकः, ततोऽपि सर्वबहुत्वात् पारिणामिक:, तत औदयिका- 10 दिमेलनसमुत्थत्वात् सान्निपातिक इति । शेषं प्रकटार्थं यावत् सेत्तं आणुपुव्वि त्ति निगमनं वाच्यम्। आनुपूर्वीविवरणं समाप्तम् । Jain Education International २५७ [हे० २०७] अथ भावानुपूर्वीमाह से किं तमित्यादि । इह तेन तेन रूपेण भवनानि भावाः वस्तुपरिणामविशेषा: औदयिकादयः, अथवा तेन तेन रूपेण भवन्तीति भावास्त एव, यद्वा भवन्ति तैः तेभ्यस्तेषु वा सत्सु प्राणिनस्तेन तेन रूपेणेति भावा यथोक्ता एव, तेषामानुपूर्वी परिपाटिर्भावानुपूर्वी । औदयिकादीनां तु स्वरूपं पुरस्तान्न्यक्षेण वक्ष्यते । अत्र चनारकादिगतिरौदयिको भाव इति वक्ष्यते, तस्यां च सत्यां शेषभावाः सर्वेऽपि यथासम्भवं 15 प्रादुर्भवन्तीति शेषभावाधारत्वेन प्रधानत्वादौदयिकस्य प्रथममुपन्यासः, ततश्च शेषभावपञ्चकस्य मध्ये औपशंमिकः स्तोकविषयत्वात् स्तोकतया प्रतिपादयिष्यत इति तदनन्तरमौपशमिकस्य, ततो बहुविषयत्वात् क्षायिकस्य, ततो बहुतरविषयत्वात् 20 क्षायोपशमिकस्य, ततो बहुतमविषयत्वात् पारिणामिकस्य, ततोऽप्येषामेव भावानां द्विकादिसंयोगसमुत्थत्वात् सान्निपातिकस्योपन्यास इति पूर्वानुपूर्वीक्रमसिद्धिरिति । शेषं पूर्वोक्तानुसारेण भावनीयम् । तदेवमुक्ताः प्रागुद्दिष्टा दशाप्यानुपूर्वीभेदाः, तद्भणने For Private & Personal Use Only 5 www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy