________________
अनुयोगद्वारसूत्रम् [सू० २०६]
२५५
क्रमनियमः। शेषं सुगमं यावन्निगमनमिति।
[हे० २०६] सामाचार्यानुपूर्वी विवक्षुराह - से किं तमित्यादि । तत्र समाचरणं समाचार: शिष्टजनाचरित: क्रियाकलापः, तस्य भाव इति यणप्रत्यये स्त्रियामीकारे च सामाचारी, सा च त्रिविधा- ओघनिर्युक्त्यभिहितार्थरूपा ओघसामाचारी १, इच्छामिच्छाद्यर्थविषया दशधा सामाचारी २, निशीथ-कल्पाद्यभिहितप्रायश्चित्त- 5 पदविभागविषया पदविभागसामाचारी ३। उक्तं च -
सामायारी तिविहा ओहे दसहा पदविभागे[आवश्यकनि० ६६५] त्ति।
तत्रेह दशधा सामाचारीमाश्रित्योक्तम्- इच्छा-मिच्छा-तहक्कारो इत्यादि, अत्र कारशब्दः प्रत्येकमभिसम्बध्यते, ततश्चैषणमिच्छा विवक्षितक्रियाप्रवृत्त्यभ्युपगमः, तया करणमिच्छाकारः, आज्ञा-बलाभियोगरहितो व्यापार इत्यर्थः १ । मिथ्या असदेतद् 10 यन्मयाऽऽचरितमित्येवं करणं मिथ्याकारः, अकृत्ये कस्मिंश्चित् कृते मिथ्या वितथमिदं न पुनर्यथा भगवद्भिरुक्तं तथैवैतन्मच्चेष्टितमतो दुष्कृतं दुराचीर्णम् इत्येवमसक्रियानिवृत्त्यभ्युपगमो मिथ्याकार इति तात्पर्यम् २ । सूत्रव्याख्यानादौ प्रस्तुते गुरुभिः कस्मिंश्चिद् वचस्युदीरिते सति यथा भवन्तः प्रतिपादयन्ति तथैवैतदित्येवं करणं तथाकारः, अविकल्प्य गुर्वाज्ञाभ्युपगम इत्यर्थः ३ । अवश्यं कर्तव्यमावश्यकम्, तत्र भवा आवश्यकी, 15 ज्ञानाद्यालम्बनेनोपाश्रयाबहिरवश्यंगमने समुपस्थिते अवश्यं कर्तव्यमिदमतोगच्छाम्यहम्' इत्येवं गुरुं प्रति निवेदना आवश्यकीति हृदयम् ४ । निषेधे भवा नैषेधिकी, उपाश्रयाद्वहि: कर्तव्यव्यापारेष्ववसितेषु पुनस्तत्रैव प्रविशतः साधोः शेषसाधूनामुत्त्रासादिदोषपरिजिहीर्षया बहिर्व्यापारनिषेधेनोपाश्रयप्रवेशसूचना नैषेधिकीति परमार्थ: ५ । भदन्त ! करोमीदमित्येवं गुरोः प्रच्छनमाप्रच्छना ६ । एकदा पृष्टेन गुरुणा नेदं कर्तव्यमित्येवं 20 निषिद्धस्य विनेयस्य किञ्चिद्विलम्ब्य ततश्चेदं चेदं चेह कारणमस्त्यतो यदि पूज्या आदिशन्ति तदा करोमीत्येवं गुरोः पुनः प्रच्छनं प्रतिप्रच्छना, अथवा ग्रामादौ प्रेषितस्य गमनकाले पुन: प्रच्छनं प्रतिप्रच्छना७। खद खट्ट संवरणे [का० धा० ९।२३] इत्यस्यानेकार्थत्वात् 'कुरु ममानुग्रहम्, परिभुक्ष्वेदम्' इत्येवं पूर्वानीताशनादिपरिभोगविषये साधूनामुत्साहना छन्दना ८ । 'इदं वस्तु लब्ध्वा ततोऽहं तुभ्यं दास्यामि' इत्येवमद्याप्यगृहीतेनाशनादिना 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org