________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २५४
[हा० २०६] से किं तं समाचारीयाणुपुव्वी इत्यादि, इह समाचरणं समाचारः शिष्टाचरित: क्रियाकलापः, तस्यभावः गुणवचनब्राह्मणादिभ्यः कर्मणिच[पा० १।१।१२४] इति ष्यञ् सामाचार्यम्, सोऽयं भावप्रत्ययो नपुंसके भावे भवति, पित्करणसामर्थ्याच्च
स्त्रीलिङ्गेऽपि, अत: स्त्रियां ङीष सामाचारी।सा पुनस्त्रिविधा-[ओहे१ दसहा शपदविभागे 5 [आवश्यक० नि० गा०६६५] त्ति वचनात् । इह दशविधसामाचारीमधिकृत्य भण्यते -
इच्छा- मिच्छेत्यादि, तत्र इच्छाकार: मिथ्याकार: तथाकारः, अत्र कारशब्दः प्रत्येकमभिसम्बध्यते। तत्रैषणमिच्छा क्रियाप्रवृत्त्यभ्युपगमः, करणं कारः, इच्छया करणं इच्छाकार: आज्ञा-बलाभियोगव्यापारप्रतिपक्षो व्यापारणं चेत्यर्थः, एवमक्षरगमनिका कार्या । नवरं मिथ्या वितथम्, न यथा भगवद्भिरुक्तं तथा, दुष्कृतमेतदिति प्रतिपत्ति: मिथ्यादुष्कृतम्, 10 मिथ्याअसत्]क्रियानिवृत्त्यभ्युपगम इत्यर्थः। अविचार्य गुरुवचनकरणं तथाकारः।अवश्यं
गन्तव्यकारणमित्यतो गच्छामीति अस्यार्थस्य संसूचिका आवसीका, अन्याऽपि कारणापेक्षा या क्रिया सा क्रिया अवश्या क्रियेति सूचितम् । निषिद्धात्मा अहमस्मिन् प्रविशामीति शेषसाधूनामन्वाख्यानादुत्त्रासादिदोषपरिहरणार्थम् अस्यार्थस्य संसूचिका
निषीधिका। इदं करोमीतिप्रच्छनम्, आप्रच्छना।सकृदाचार्येणोक्ते इदं त्वया कर्त्तव्यम्' 15 इति पुन:प्रच्छनंप्रतिप्रच्छनम्। छन्दना प्रोत्साहना इदंभक्तंभुक्ष्व' इति। निमन्त्रणम् अहं
ते भक्तं लब्ध्वा दास्यामि' इति । उक्तं च - पुव्वगहिएण छंदण निमंतणा होअगहिएणं [आवश्यक०नि०६९७] । तवाहमित्यभ्युपगमः श्रुताद्यर्थमुपसम्पत्।उक्तं च
सुय सुह दुक्खे खेत्ते मग्गे विणयोवसंपदाए य[ ]।
एवमेता:प्रत्तिपत्तय: सामाचारीपूर्वानुपूर्व्यामिति।आह - किमर्थोऽयंक्रमनियम: इति 20 येनेत्थमेवपूर्वानुपूर्वीप्रतिपाद्यत इति, उच्यते - इह मुमुक्षुणासमग्रसामाचार्यनुष्ठानपरेणआज्ञा
बलाभियोग एष स्व-परोपतापहेतुत्वात् प्रथमं वर्जनीय: सामायिकाख्यप्रधानगुणलाभात्, ततः किंचित् स्खलनसम्भव एव मिथ्यादुष्कृतं दातव्यम्, ततोऽप्येवंविधेनैव सता यथावद् गुरुवचन-मनुष्ठेयम्, सफलप्रयासत्वात्, परमगुरुवचनाव्यवस्थितस्य त्वसामायिकवतः
स्खलनामलिनस्य वा गुरुवचनानुष्ठानभावेऽपि पारमार्थिकफलापेक्षया निष्फलप्रयासत्वात्, 25 ततोऽप्येवंविध एवाऽऽवश्यकाद्यर्थसम्पादक इति सुखावगमप्रयोजनानि शेषपदानीत्यत:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org