________________
अनुयोगद्वारसूत्रम् [सू० २०३]
२४९
उसभे १। सेतं पच्छाणुपुव्वी।
[४] से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए चउवीसगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । सेतं अणाणुपुव्वी। सेतं उक्कित्तणाणुपुव्वी।
[चू० २०३] उक्कित्तणाणुपुव्विसुत्तं - उक्कित्तण त्ति गुणवतो थुती जहत्थ- 5 णामुक्कित्तणं वा। तं च जहाकमेणुप्पण्णाण तित्थकराण चक्कि-बल-वासुदेव-कुलगरगणधराण य थेरांवलिया कमेण दट्ठव्वा । सेसं कंठं।
[हा० २०३] से किं त मित्यादि । उत्कीर्तनं संशब्दनं यथार्थाभिधानम्, तस्यानुपूर्वी अनुपरिपाटी त्रिविधा प्रज्ञप्ता, तद्यथा- पूर्वानुपूर्वीत्यादि पूर्ववत् । तत्र पूर्वानुपूर्वी उसभइत्यादि। आह - वस्तुतआवश्यकस्य प्रकृतत्वात् 'सामायिकं चतुर्विंशति- 10 स्तवः' इत्यादि वक्तव्यम्, किमर्थमेतत् सूत्रान्तरम् ? इति, अत्रोच्यते - शेषश्रुतस्यापि सामान्यमेतदिति ज्ञापनार्थम्, तथाहि -आचाराद्यनुयोगेऽपि प्रत्यध्ययनमे तत् सर्वमेवाभिधातव्यमित्युदाहरणमात्रत्वाद् भगवतामेव च तीर्थप्रणेतृत्वात् । शेषं सूत्रसिद्धं यावत् सेत्तं उक्कित्तणाणुपुन्वि त्ति।
[हे० २०३] साम्प्रतं प्रागुद्दिष्टामेवोत्कीर्तनानुपूर्वी बिभणिषुराह - से किं 15 तमित्यादि । उत्कीर्तनं संशब्दनमभिधानोच्चारणम्, तस्याऽऽनुपूर्वी अनुपरिपाटिः, सा पूर्वानुपूर्व्यादिभेदेन त्रिविधा, तत्र ऋषभः प्रथममुत्पन्नत्वात् पूर्वमुत्कीर्त्यते, तदनन्तरंक्रमेण अजितादय इति पूर्वानुपूर्वी, शेषभावना पूर्ववत्। अत्राह - ननु औपनिधिक्या द्रव्यानुपूर्व्या अस्याश्च को भेद: ? उच्यते - तत्र द्रव्याणां विन्यासमात्रमेव पूर्वानुपूर्व्यादिभावेन चिन्तितम्, अत्र तु तेषामेव तथैवोत्कीर्तनं क्रियत इत्येतावन्मात्रेणभेदइति।भवत्वेवम्, किन्त्वावश्यकस्य 20 प्रस्तुतत्वादुत्कीर्तनमपिसामायिकाद्यध्ययनानामेवयुक्तम्, किमित्यप्रक्रान्तानाम् ऋषभादीनां तद्विहितमिति ? सत्यम्, किन्तु सर्वव्यापकं प्रस्तुतशास्त्रमित्यादावेवोक्तम्, तद्दर्शनार्थमृषभादिसूत्रान्तरोपादानम्, भगवतां च तीर्थप्रणेतृत्वात् तत्स्मरणस्य * (थेरावलियाकमेण दट्ठव्वं?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org