________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २३२
भेदोऽङ्गीक्रियते तर्हि प्रत्येकमानन्त्यप्रसक्तिः, एकसमयस्थितीनां द्विसमयस्थितीनां च द्रव्याणां प्रत्येकमनन्तानां लोके सद्भावादिति, सत्यमेतत्, किन्त्वेकसमयस्थितिकमपि यदवगाहभेदेन वर्तते तदिह भिन्नं विवक्ष्यते, एवं द्विसमयस्थितिकमप्यवगाहभेदेन भिन्नं
चिन्त्यते, लोके चासङ्ख्येया अवगाहभेदा: सन्ति, प्रत्यवगाहं चैकद्विसमयस्थितिकानेक5 द्रव्यसम्भवादनानुपूर्व्यवक्तव्यकद्रव्याणामाधारक्षेत्रभेदात् प्रत्येकमसङ्ख्येयत्वं न विहन्यते इति, अनया दिशाऽतिगहनमिदं सूक्ष्मधिया पर्यालोचनीयमिति।
क्षेत्रद्वारे एगदव्वं पडुच्च लोगस्स संखेजइभागे होजा, जाव देसूणे वा लोगे होज त्ति, इह त्र्यादिसमयस्थितिकद्रव्यस्य तत्तदवगाहसम्भवतः सङ्ख्येयादिभागवर्तित्वं
भावनीयम्, यदा तु त्र्यादिसमयस्थितिक: सूक्ष्मपरिणाम: स्कन्धो देशोनलोकेऽवगाहते 10 तदैकस्यानुपूर्वीद्रव्यस्य देशोनलोकवर्तित्वं भावनीयम् । अन्ये तु पएसूणे वा लोगे होज
त्ति पाठं मन्यन्ते, तत्राप्ययमेवार्थः, प्रदेशस्यापि विवक्षया देशत्वादिति । सम्पूर्णेऽपि लोके कस्मादिदं न प्राप्यत इति चेत्, उच्यते - सर्वलोकव्यापीअचित्तमहास्कन्धएव प्राप्यते, सच तद्व्यापितया एकमेव समयमवतिष्ठते, ततऊर्द्धमुपसंहारस्योक्तत्वात्, न चैकसमयस्थितिक
मानुपूर्वीद्रव्यं भवितुमर्हति, त्र्यादिसमयस्थितिकत्वेन तस्योक्तत्वात्, तस्मात् त्र्यादिसमय15 स्थितिकमन्यद् द्रव्यं नियमादेकेनापि प्रदेशेनोन एव लोकेऽवगाहत इति प्रतिपत्तव्यम्।
अत्राह - नन्वचित्तमहास्कन्धोऽप्येकसमयस्थितिको नभवति, दण्डाद्यवस्थासमयगणने तस्याप्यष्टसमयस्थितिकत्वात्, एवं चसति तस्याप्यानुपूर्वीत्वात् सम्पूर्णलोकव्यापित्वं युज्यतेऽत्र वक्तुमिति, नैतदेवम्, अवस्थाभेदेन वस्तुभेदस्येह विवक्षितत्वात्, भिन्नाश्च परस्परं
दण्ड-कपाटाद्यवस्थाः, तद्भेदेन वस्तुनोऽपि भेदाद् अन्यदेव दण्ड-कपाटाद्यवस्थाद्रव्येभ्यः 20 सकललोकव्याप्यचित्तमहास्कन्धद्रव्यम्, तच्चैकसमयस्थितिकमिति न तस्यानुपूर्वीत्वम्,
एतच्चानन्तरमेव पुनर्वक्ष्यत इत्यलं प्रसङ्गेन । अथवा यथा क्षेत्रानुपूर्त्यां तथाऽत्रापि सर्वलोकव्यापिनोऽप्यचित्तमहास्कन्धस्य विवक्षामात्रमाश्रित्य एकस्मिन्नभ:प्रदेशेऽप्राधान्याद्देशोनलोकवर्तित्वं वाच्यम्, एकसमयस्थितिकस्यानानुपूर्वीद्रव्यस्य द्विसमयस्थितिका
वक्तव्यकस्य च तत्र प्रदेशे प्राधान्याश्रयणादिति भावः । एवमन्यदपि आगमाविरोधतो 25 वक्तव्यमिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org