________________
अनुयोगद्वारसूत्रम् [सू० १८० - १९४]
नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्ज त्ति, त्र्यादिसमयस्थितिकद्रव्याणां सर्वलोकेऽपि भावादिति भावनीयम् ।
अनानुपूर्वीद्रव्यचिन्तायां यथा क्षेत्रानुपूर्व्यं तथा अत्राप्येकद्रव्यं लोकस्यासख्येयभाग एव वर्तते, कथमिदम् ? उच्यते - यत् कालत एकसमयस्थितिकं तत् क्षेत्रतोऽप्येकप्रदेशावगाढमेवेहानानुपूर्वीत्वेन विवक्ष्यते, तच्च लोकासङ्ख्येयभाग एव भवति ।
२३३
आएसंतरेण वा सव्वपुच्छासु होज्ज त्ति, अस्य भावना - इहाचित्तमहास्कन्धस्य दण्डाद्यवस्थाः परस्परं भिन्नाः, आकारादिभेदात्, द्वि-त्रि- चतुः प्रदेशिकादिस्कन्धवत्, ततश्च ता एकैकसमयवृत्तित्वात् पृथगनानुपूर्वीद्रव्याणि तेषु च मध्ये किमपि कियत्यपि क्षेत्रे वर्तत इत्यनया विवक्षया किलैकमनानुपूर्वीद्रव्यं मतान्तरेण सङ्ख्येयभागादिकासु पञ्चस्वपि पृच्छासु लभ्यते, एतच्च सूत्रेषु प्रायो न दृश्यते, टीका- चूयस्त्वेवं व्याख्यातमुपलभ्यत इति ।
नानाद्रव्याणि तु सर्वस्मिन्नपि लोके भवन्ति, एकसमयस्थितिकद्रव्याणां सर्वत्र भावादिति ।
Jain Education International
For Private & Personal Use Only
5
अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपूर्व्यामिवैकद्रव्यं लोकस्यासङ्ख्येयभाग एव वर्तते, कथमिति ? उच्यते - यत् कालतो द्विसमयस्थितिकं तत् क्षेत्रतोऽपि द्विप्रदेशावगाढमेवेहा - 15 वक्तव्यकत्वेन गृह्यते, तच्च लोकासङ्ख्येयभाग एव स्यात्, अथवा द्विसमयस्थितिकं द्रव्यं स्वभावादेव लोकस्यासङ्ख्येयभाग एवावगाहते, न परत: । आदेशान्तरेण वा महखंधवज्जमन्नदव्वेसु आइल्लचउपुच्छासु होज्ज त्ति, अस्य हृदयम् - मतान्तरेण किल द्विसमयस्थितिकमपि द्रव्यं किञ्चिल्लोकस्य सङ्ख्येयभागेऽवगाहते किञ्चित्त्वसङ्ख्येये, अन्यत्तु सङ्ख्येयेषु तद्भागेष्ववगाहते, अपरं त्वसङ्ख्येयेष्विति, महास्कन्धं वर्जयित्वा शेषद्रव्याण्याश्रित्य 20 यथोक्तस्वरूपास्वाद्यासु चतसृषु पृच्छास्वेकमवक्तव्यकद्रव्यं लभ्यते, महास्कन्धस्य त्वष्टसमयस्थितित्वेनोक्तत्वान्न द्विसमयस्थितिकत्वसम्भव इति तद्वर्जनम्, अत एव सर्वलोकव्याप्तिलक्षणायाः पञ्चमपृच्छाया अत्रासम्भवः, महास्कन्धस्यैव सर्वलोकव्यापकत्वात्, तस्य चावक्तव्यकत्वायोगादिति । एतदपि सूत्रं वाचनान्तरे क्वचिदेव दृश्यते । नानाद्रव्याणि
10
www.jainelibrary.org