________________
आ.श्रीजिनदासगणिविरचितचूर्णि हरिभद्रसूरिविर० विवृति- 1 ते मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् २३०
कालपदेसो समओ समयचउत्थम्मि[ हवति]जंवेलं । तेणूण वत्तणत्ता जं लोगो कालमयखंधो ॥ २॥ [ अयमत्र भावार्थ:
]
इह कालानुपूर्व्यधिकारात् कालस्य च वर्त्तनादिरूपत्वात् पर्याय-पर्यायिणोरभेदात् स खल्वचित्तमहास्कन्धश्चतुः समयात्मकः काल एव, अतः 5 कालप्रदेशः कालविभाग: समय इति, ततश्च समये चतुर्थे भवति वर्त्तते यद्वेलमिति यस्यां वेलायामसौ स्कन्धः, स हि तदा विवक्षयैकत्वाद् न गृह्यते, अतः तेणूणत्ति विवक्षितचतुःसमयात्मकस्कन्धस्तेनोनः परिगृह्यते । कथमेतदेवम् ? वत्तण [त] त्ति वर्त्तनारूपत्वात् कालस्य जं लोको कालमयखंधो त्ति विवक्षयैव यस्माल्लोकः कालमयस्कन्धो वर्त्तते अतस्तस्य प्रदेशाख्यसमयागणने प्रदेशेनोनो लोक इति । एवमन्यथाऽपि स्वबुद्धया भावनीयमिति । णाणादव्वाई पडुच्च णियमा सव्वलोए त्ति त्र्यादिप्रदेशावगाहत्र्यादिसमयस्थितीनां सकललोके भावात् ।
10
15
20
अनानुपूर्वीद्रव्यचिन्तायाम् एगदव्वं पडुच्च लोय[स्स] असंखेज्जतिभागे होज्जा, सेसपुच्छा पडिसेहितव्वा। भावार्थस्त्वेकप्रदेशावगाहैकसमयस्थितेर्विवक्षितत्वादित्यादिना प्रकारेणाऽऽगमानुसारतो वाच्यः ।
आदेशान्तरेण वाऽस्य भावना - अचित्तमहास्कन्धो दण्डावत्थाविदव्वत्तणं मोत्तुं कवाडावत्थाभवणं,तंअन्नंचेव दव्वं भवति, अण्णागारभावत्तणओबहुतरपरमाणुसङ्घातत्तणओ य, दिट्टंतोदुपदेसियस्स तिपदेसियभवणंव, एवं मंथापूरण-लोगापूरणसमएसुं महास्कन्धस्यान्यान्यद्रव्यभवनम्,अतो काला [णा]णुपुव्विदव्वं सव्वपुच्छासु संभवतीत्यर्थः । णाणादव्वाई पडुच्च नियमा सव्वलोए होज्ज त्ति भावितार्थं द्रव्यप्रमाणद्वार एवेति ।
अवक्तव्यक-द्रव्यचिन्तायाम् एगं दव्वं पडुच्च लोगस्स असंखेज्जतिभागे होज्जा द्विप्रदेशावगाह - द्विसमयस्थितेर्विवक्षित-त्वादधिकस्य च द्विसमयस्थितेरभावात् । आदेशान्तरेण वा महखंधवज्जमण्णदव्वेसु आदिल्लचउपुच्छासु होज्जा । अस्य हृदयम् - देशोनलोकावगाह्यपि द्विसमयस्थितिर्भवति ।
[हे० १८०-१९४] उक्ता क्षेत्रानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेव क्रमप्राप्तां कालानुपूर्वी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org