________________
अनुयोगद्वारसूत्रम् [सू० १६४-१६७]
२१७
उa
ऊर्ध्वलोकः, उक्तं च
उर्ल्ड ति उवरि जंठिय सुभखेत्तं खेत्तओ य दव्वगुणा।
उप्पज्जति सुभा वा तेण तओ उड्डलोगोत्ति ॥१॥[ तयोश्चाधोलोकोर्ध्वलोकयोर्मध्ये अष्टादश योजनशतानि तिर्यग्लोकः ।समयपरिभाषया तिर्यग् मध्ये व्यवस्थितो लोकस्तिर्यग्लोकः। अथवा तिर्यक्शब्दो मध्यमपर्याय:, तत्र च क्षेत्रानु- 5 भावात् प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि भवन्ति, अतस्तद्योगात्तिर्यङ् मध्यमो लोकस्तिर्यग्लोकः।अथवा स्वकीयोर्ध्वा-ऽधोभागात्तिर्यग्भाग एवातिविशालतयाऽत्र प्रधानम्, अतस्तेन व्यपदेशः कृतः, तिर्यग्भागप्रधानो लोकस्तिर्यग्लोकः । उक्तं च
मज्झणुभावं खेत्तं जंतं तिरियंति वयणपज्जवओ।
भण्णइ तिरियं विसालं अतो व तं तिरियलोगो त्ति॥१॥[ ] 10 वयणपज्जवओ त्ति मध्यानुभाववचनस्य तिर्यग्ध्वने: पर्यायतामाश्रित्येत्यर्थः । अत्र च जघन्यपरिणामवद्रव्ययोगतो जघन्यतया गुणस्थानकेषु मिथ्यादृष्टेरिवादावेवाधोलोकस्योपन्यासः, तदुपरिमध्यमद्रव्यवत्त्वात्मध्यमतया तिग्लोकस्य, तदुपरिष्टादुत्कृष्टद्रव्यवत्त्वादूर्ध्वलोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः । पश्चानुपूर्वी तु व्यत्ययेन प्रतीतैव। अनानुपूर्त्यां तु पदत्रयस्यास्य षड् भङ्गा भवन्ति, ते च पूर्वं दर्शिता एव। शेषभावना त्विह प्राग्वदेवेति। अत्र 15 च क्वचिद्वाचनान्तरे एकप्रदेशावगाढादीनाम् असङ्ख्यातप्रदेशावगाढान्तानां प्रथमं पूर्वानुपूर्व्यादिभाव उक्तो दृश्यतेसोऽपिक्षेत्रानुपूर्व्यधिकारादविरुद्ध एव, सुगमत्वाच्चोक्तानुसारेण भावनीय इति।
[सू० १६४] अहोलोयखेत्ताणुपुव्वी तिविहा पण्णत्ता । तंजहापुव्वाणुपुव्वी१, पच्छाणुपुव्वी २, अणाणुपुव्वी ३।।
[सू० १६५] से किंतंपुव्वाणुपुव्वी? पुव्वाणुपुव्वी- रयणप्पभा१, सक्करप्पभा २, वालुयप्पभा ३ ,पंकप्पभा४, धूमप्पभा ५, तमप्पभा ६, तमतमप्पभा७। सेतं पुव्वाणुपुव्वी।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org