________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविरविवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
२०८
वाऽसङ्ख्येयकालात्तेष्वेव नभ:प्रदेशेष्वागत्यावगाहनीयम् । न च वक्तव्यमसङ्खयेयेऽपि क्षेत्रे पौन:पुन्येन तत्रैव भ्रमणे कस्मादनन्तोऽपि कालो नोच्यत इति ? यत इहासङ्खयेये क्षेत्रेऽसङ्खयेयकालमेवान्यत्र तेन पर्यटितव्यम्, तत ऊर्ध्वं पुनस्तस्मिन्नेव विवक्षितक्षेत्रे नियमादवगाहनीयम्, वस्तुस्थितिस्वाभाव्यादिति तावदेकीयं व्याख्यानमादर्शितम्।
अन्ये तु व्याचक्षते- यस्मात् त्र्यादिप्रदेशलक्षणाद्विवक्षितक्षेत्रात् तदानुपूर्वीद्रव्यमन्यत्र गतम्, तस्य क्षेत्रस्य स्वभावादेवासङ्खयेयकालादूर्ध्वं तेनैवानुपूर्वीद्रव्येण वर्ण-गन्ध-रसस्पर्श-सङ्ख्यादिधर्मैः सर्वथा तुल्येनान्येन वा तथाविधाधेयेन संयोगे सति नियमात् तथाभूताधारतोपपत्तेरसङ्खयेय एवान्तरकाल इति। तत्त्वं तु केवलिनो विदन्ति, गम्भीरत्वात् सूत्रप्रवृत्तेरिति।
नाणादव्वाइमित्यादि, न हि त्र्यादिप्रदेशावगाढानुपूर्वीद्रव्याणि युगपत् सर्वाण्यपि तद्भावं विहाय पुनस्तथैव जायन्त इति कदाचिदपि सम्भवति, असङ्खयेयानां तेषां सर्वदैवोक्तत्वादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्यसावेवैकानेकद्रव्याश्रया अन्तरकालवक्तव्यता, केवलमनानुपूर्वीद्रव्यस्यैकप्रदेशावगाढस्यावक्तव्यकद्रव्यस्य तु द्विप्रदेशावगाढस्य पुनस्तथाभवनेऽन्तरकालश्चिन्तनीयः। शेषा तुव्याख्याद्वयभावना सर्वाऽपि 15 तथैवेति।
[सू० १५६] णेगम-ववहाराणं आणुपुव्वीदव्वाइं सेसदव्वाणं कतिभागे होज्जा? तिण्णि वि जहा दव्वाणुपुव्वीए ।
[चू० १५६] भागेत्तिजता खप्पदेसाणुपुब्विमादि चिंतिज्जं(ज)ति तया,पण्णवगा(णा?)भिप्पायपरिकप्पणाए समूणातिरित्तभागो भाणितव्वो । जता पुणावगाहिदव्वा तदा 20 असंखेज्जेसु भागेसु त्ति जहा दव्वाणुपुव्वीए तहाभाणितव्वं ।
[हा० १५६] भागचिन्तायामानुपूर्वीद्रव्याणिशेषद्रव्येभ्योऽसंख्येयेषुभागेष्वित्युक्तम्। अत्रैके व्याचक्षते- यदा खप्पदेसाणमाणुपुब्विमादि चिंतिज्जति तदा पण्णवणऽभिप्पायपरिकप्पणाएसमूणातिरित्तभागोभाणितव्वो, जदापुणअवगाहिदव्वा तदाऽसंखेज्जेसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org