________________
अनुयोगद्वारसूत्रम् [सू० १५५ ]
स्थितिकालः सिद्ध्यति, नानाद्रव्याणि तु सर्वकालम्, द्विप्रदेशावगाढद्रव्यभेदानां सदैव भावादिति। एवं समानवक्तव्यत्वादतिदिशति एवं दोण्णि वित्ति ।
-
[सू० १५५] गम - ववहाराणं आणुपुव्वीदेव्वाणमंतरं कालतो केवचिरं होति ? तिण्णि वि एगं दव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं। णाणादव्वाइं पडुच्च णत्थि अंतरं ।
२०७
[चू० १५५] खप्पदेसाण अंतरं नत्थि, अणादिकालसभावट्ठितणिच्चत्तणतो । खप्पदेसावगाढदव्वाणं पुण अनंतकालमंतरं भाणितव्वं जहा दव्वाणुपुव्वीए । कहं ?, उच्यते - सव्वपोग्गलाण सव्वावगाहखेत्तस्स असंखेज्जत्तणतो ठितिकालासंखेज्जत्तणतो
य ।
Jain Education International
[हा० १५५] अन्तरचिन्ता प्रकटार्था, नवरमुत्कृष्टतः असंख्येयं कालम्, नानन्तं 10 यथा द्रव्यानुपूर्व्यामिति, कस्मात् ?, सर्वपुद्गलानामवगाहक्षेत्रस्य स्थितिकालस्य चासंख्येयत्वात् क्षेत्रानुपूर्व्यधिकारे च क्षेत्रप्राधान्याद् असंख्येयकालादारतश्च पुनस्तत्प्रदेशानां तथाविधाधेयभावेन तथाभूताधारपरिणामभावादित्यतिगहनमेतदवहितैर्भावनीयमिति ।
5
[हे० १५५ ] इदानीमन्तरद्वारम् - जहण्णेणं एवं समयं ति, अत्र भावना - इह यदा त्र्यादिप्रदेशावगाढं किमप्यानुपूर्वीद्रव्यं समयमेकं तस्माद्विवक्षितक्षेत्रादन्यत्रावगाहं प्रतिपद्य 15 तेष्वेव त्र्याद्याकाशप्रदेशेष्ववगाहते तदैकानुपूर्वीद्रव्यस्य समयो जघन्यान्तरकालः प्राप्यते । उक्कोसेणं असंखेज्जं कालं ति, तदेव यदाऽन्येषु क्षेत्रप्रदेशेष्वसङ्घयेयं कालं परिभ्रम्य केवलमन्यद्रव्ययुक्तं वा समागत्य पुनरपि तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदोत्कृष्टतोऽसङ्खयेयोऽन्तरकालः प्राप्यते, न पुनर्द्रव्यानुपूर्व्यामिवानन्तः, यतो द्रव्यानुपूर्व्यं विवक्षितद्रव्यादन्ये द्रव्यविशेषा अनन्ताः प्राप्यन्ते, तैश्च सह क्रमेण संयोगे उक्तोऽनन्तः कालः, 20 अत्र तु विवक्षितावगाहक्षेत्रादन्यत् क्षेत्रमसङ्खचेयमेव, प्रतिस्थानं चावगाहनामाश्रित्य संयोगस्थितिरत्राप्यसङ्खयेयकालैव, ततश्चासङ्ख्येये क्षेत्रे परिभ्रमता द्रव्येण पुनरपि केवलेनाऽन्यसंयुक्तेन
For Private & Personal Use Only
www.jainelibrary.org