________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २०६
5
दव्वाण खप्पदेसावगाहट्ठितिकालो चिंतिज्जइ, सो विदव्वाणुपुब्विसरिसो चेव।
[हा० १५४] कालचिन्तायामपि यद्याकाशप्रदेशानामेव कालश्चिन्त्यते ततः किल नभ:प्रदेशानामनाद्यपर्यवसितत्वात् स एववक्तव्यः,सूत्राभिप्रायस्त्वानुपूर्व्यादि-द्रव्याणामेवावगाहस्थितिकालश्चिन्त्यते इत्येके, न चेहक्षेत्रखण्डानामपि विशिष्टपरिणामपरिणताधेयद्रव्याधारभावोऽपि चिन्त्यमानो विरुध्यत इति, युक्तिपतितश्चायमेव, क्षेत्रानुपूर्व्यधिकारादिति। तत्र एगदव्वंपडुच्चजहण्णेणंएकसमयमित्यादि,अस्यभावना-द्विप्रदेशावगाातदन्यसन्निपाते त्रिप्रदेशावगाह्यंभूत्वा समयानन्तरमेव पुनर्द्रिप्रदेशावगाह्यमेवभवति, उत्कृष्टतस्त्वसंख्येयं कालंभूत्वेति, आधेयभेदाच्चेहाऽऽधारभेदो भावनीय इति, शेषं भावितार्थम् ।
[हे० १५४] अथ कालद्वारम् - तत्र क्षेत्रावगाहपर्यायस्य प्राधान्यविवक्षया 10 त्र्यादिप्रदेशावगाढद्रव्याणामेवानुपूर्व्यादिभाव: पूर्वमुक्तः, अतस्तेषामेवावगाढस्थितिकालं
चिन्तयन्नाह- एगदव्वं पडुच्चेत्यादि । अत्र भावना- इह द्विप्रदेशावगाढस्य एकप्रदेशावगाढस्य वा द्रव्यस्य परिणामवैचित्र्यात् प्रदेशत्रयाद्यवगाहभवने आनुपूर्वीव्यपदेश: सञ्जातः, समयंचैकंतद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढंवा तद् द्रव्यं संजातमित्या
नुपूर्व्याः समयो जघन्यावगाहस्थिति:, यदा तु तदेव द्रव्यमसङ्ख्येयं कालं तद्भावमनुभूय 15 पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा जायते तदा उत्कृष्टतया असङ्खयेयोऽ
वगाहस्थितिकाल: सिद्धयति, अनन्तस्तु न भवति, विवक्षितैकद्रव्यस्यैकावगाहेनोत्कृष्टतोऽप्यसङ्ख्यातकालमेवावस्थानादिति।नानाद्रव्याणितुसर्वाद्धासर्वकालमेवभवन्ति, त्र्यादिप्रदेशावगाढद्रव्यभेदानां सदैवावस्थानादिति।।
एवं यदासमयमेकंकिंचिद्रव्यमेकस्मिन्प्रदेशेऽवगाढं स्थित्वा ततो द्व्यादिप्रदेशाव20 गाढं भवति तदाऽनानुपूर्व्याः समयो जघन्याऽवगाहस्थितिः, यदा तु तदेवासङ्ख्यातं कालं
तद्रूपेण स्थित्वा ततोद्वयादिप्रदेशावगाढंभवति तदोत्कृष्टतोऽसङ्ख्येयोऽवगाहस्थितिकाल:, नानाद्रव्याणि तु सर्वकालम्, एकप्रदेशावगाढद्रव्यभेदानां सर्वदाभावादिति।अवक्तव्यकस्य तु द्विप्रदेशावगाढस्यसमयादूर्ध्वमेकस्मिंस्त्र्यादिषुवा प्रदेशेष्ववगाहप्रतिपत्तौजघन्यासमयोऽवगाहस्थितिः,असङ्ख्येयकालादूर्ध्वं द्विप्रदेशावगाहं परित्यजत उत्कृष्टतोऽसङ्ख्येयोऽवगाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org