________________
अनुयोगद्वारसूत्रम् [सू० १५३,१५४]
२०५ ऽऽदिट्ठप्पदेसाण छद्दिसिंठितमणंतरपदेसाण फुसणा भाणितव्वा । इह पुण सुत्ताभिप्पातो खप्पदेसावगाढदव्वस्स फुसणाभाणितव्वा, सा य दव्वाणुपुब्विसरिसा।
[हा० १५३] स्पर्शनायां तु यद्याकाशप्रदेशानामेव स्पर्शना तत: खल्वानुपूर्व्यादिद्रव्याधारत्वादिष्टानामेव षड्दिस्थितानन्तरप्रदेशैरेव सहाऽवगन्तव्या ; इह पुनः किल सूत्राभिप्रायः - यथाऽऽकाशप्रदेशावगाढस्य द्रव्यस्यैव चिन्तनीया इति वृद्धा व्याचक्षते। 5 भावार्थस्त्वनन्तरद्वारानुसारतोभावनीय इति।
[हे० १५३] गतं क्षेत्रद्वारम् । स्पर्शनाद्वारमपि चेत्थमेव निखिलंभावनीयम्, नवरमत्र कस्याश्चिद्वाचनाया अभिप्रायेणानुपूर्व्यामेकद्रव्यस्य सङ्ख्येयभागादारभ्य यावद्देशोनलोकस्पर्शना भवतीति ज्ञायते, अन्यस्यास्त्वभिप्रायेण सङ्ख्येयभागादारभ्य यावत् सम्पूर्णलोकस्पर्शना स्यादित्यवसीयते, एतच्च द्वयमपि बुध्यत एव, यतो यदि मुख्यतया 10 क्षेत्रप्रदेशानामानुपूर्वीत्वमङ्गीक्रियते तदा अनानुपूर्व्यवक्तव्यकयोर्निरवकाशताप्रसङ्गात् पूर्ववद्देशोनता लोकस्य वाच्या। अथानुपूर्वीरूपे क्षेत्रेऽवगाढत्वादचित्तमहास्कन्धस्यैवानुपूर्वीत्वंतर्हि द्रव्यानुपूर्व्यामिवात्रापि सम्पूर्णतालोकस्य वाच्येति।न चात्रानुपूर्व्यासकलस्यापि लोकस्य स्पृष्टत्वादितरयोरवकाशाभाव इति वक्तव्यम्, एकैकप्रदेशरूपे द्विद्विप्रदेशरूपे च क्षेत्रेऽवगाढानांप्रत्येकमसङ्ख्येयानांद्रव्यभेदानांसद्भावतस्तयोरपि प्रत्येकमसङ्खयेयभेदयोर्लोके 15 सद्भावाद् द्रव्यावगाहभेदेन चक्षेत्रभेदस्येह विवक्षितत्वादितिभावः। वृद्धबहुमतश्चायमपि पक्षो लक्ष्यते, तत्त्वं तु केवलिनो विदन्ति । क्षेत्र-स्पर्शनयोस्तु विशेषः प्राग् निदर्शित एवेति गतं स्पर्शनाद्वारम्। __ [सू० १५४] णेगम-ववहाराणं आणुपुव्वीदव्वाइं कालतो केवचिरं होति ? एगदव्वं पडुच्च जहन्नेणं एगसमयं, उक्कोसेणं असंखेज्जं कालं। 20 णाणादव्वाइं पडुच्च सव्वद्धा। एवं दोण्णि वि ।
[चू० १५४] कालो खप्पदेसाण अणादिअपज्जवसितो भाणितव्वो । इह पुण सुत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org