________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २०४
नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्ज त्ति एकैकप्रदेशावगाडैरपि द्रव्यभेदैः समग्रलोकव्याप्तेरिति । एवं अवत्तव्वगदव्वाणि वि त्ति, अवक्तव्यकद्रव्यमप्येकं लोकासंख्येयभाग एव वर्तते, द्विप्रदेशावगाढस्यैवावक्तव्यकत्वेनाभिधानात्, प्रदेशद्वयस्य
च लोकासङ्ख्येयभागवत्तित्वादिति, तथा प्रत्येकं द्विप्रदेशावगाडैरपि द्रव्यभेदैः 5 समस्तलोकव्याप्तेर्नानाद्रव्याणामत्रापिसर्वलोकव्यापित्वमवसेयमिति।।
अत्राह- नन्वानुपूर्व्यादिद्रव्याणि त्रीण्यपि सर्वलोकव्यापीनीत्युक्तानि, ततश्च येष्वेवाकाशप्रदेशेष्वानुपूर्वी तेष्वेवेतरयोरपिसद्भाव: प्रतिपादितोभवति, कथं चैतत् परस्परविरुद्धं भिन्नविषयं व्यपदेशत्रयमेकस्यस्यात् ? अत्रोच्यते- इह त्र्यादिप्रदेशावगाढा द्रव्याद्
भिन्नमेवतावदेकप्रदेशावगाढम्, ताभ्यांच भिन्नं द्विप्रदेशावगाढम्, ततश्चाधेयस्यावगाहक10 द्रव्यस्य भेदादाधारस्याप्यवगाह्यस्य भेदः स्यादेव, तथा च व्यपदेशभेदो युक्त एव, अनन्त
धर्माध्यासिते च वस्तुनि तत्तत्सहकारिसन्निधानात् तत्तद्धर्माभिव्यक्तौ दृश्यत एव समकालं व्यपदेशभेदो यथाखड्ग-कुन्त-कवचादियुक्ते देवदत्ते खड्गी कुन्ती कवचीत्यादिरिति । इह क्वचिद् वाचनान्तरेअणाणुपुव्वीदव्वाइंअवत्तव्वगदव्वाणियजहेव हेतुति अतिदेश एव
दृश्यते, तत्र हेट्टत्ति यथाऽधस्ताद् द्रव्यानुपूर्व्यामनयोः क्षेत्रमुक्तं तथाऽत्रापि ज्ञातव्यमित्यर्थः, 15 तच्च व्याख्यातमेवेति, एवमन्यत्रापि यथासम्भवं वाचनान्तरमवगन्तव्यमिति।
[सू०१५३] [१]>णेगम-ववहाराणं आणुपुव्वीदव्वाइंलोगस्स किं संखेज्जइभागं, फुसंति? असंखेज्जति० ? जाव सव्वलोगंफुसंति ? एगं दव्वंपडुच्च संखेज्जतिभागंवा फुसंति, असंखेज्जतिभागंवा, संखेज्जेवा
भागे, असंखेज्जे वा भागे, देसूणं वा लोगं फुसंति, णाणादव्वाइं पडुच्च 20 णियमासव्वलोगंफुसंति।
[२] अणाणुपुव्वीदव्वाइं अवत्तव्वयदव्वाणि य जहा खेत्तं, नवरं फुसणाभाणियव्वा।
[चू० १५३] इदाणिंफुसणा- जति खप्पदेसाणफुसणा तोअणुपुब्विमादिदव्वत्तेणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org