________________
२०३
अनुयोगद्वारसूत्रम् [सू० १५२] प्रदेशत्रयलक्षणेन देशेन हीनोऽत्र लोकः प्रतिपादित इत्यदोषः। उक्तं च पूर्वमुनिभिः
महखंधापुण्णे वीऽवत्तव्वग-ऽणाणुपुब्विदव्वाइं।
जद्देसोगाढाइं तद्देसेणं स लोगूणो॥१॥[ ] ननु यद्येवंतर्हि द्रव्यानुपूर्व्यामपि सर्वलोकव्यापित्वमानुपूर्वीद्रव्यस्य यदुक्तं तदसङ्गतं प्राप्नोति, अनानुपूर्व्यवक्तव्यकद्रव्याणामनवकाशत्वेन तत्राप्यभावप्रतीतिप्रसङ्गात्, सर्वकालं 5 च तेषामप्यवस्थितिप्रतिपादनात्, नैतदेवम्, यतो द्रव्यानुपूर्व्या द्रव्याणामेवानुपूर्व्यादिभाव उक्तः, न क्षेत्रस्य, तस्य तत्रानधिकृतत्वात्, द्रव्याणां चानुपूर्व्यादीनां परस्परभिन्नानामप्येकत्रापि क्षेत्रेऽवस्थानं न किञ्चिद्विरुध्यते, एकापवरकान्तर्गतानेकप्रदीपप्रभाऽवस्थानदृष्टान्तादिसिद्धत्वात्, अतो न तत्र कस्याप्यनवकाशः, अत्र तु द्रव्याणामौपचारिक एवानुपूर्व्यादिभावः, मुख्यस्तु क्षेत्रस्यैव, क्षेत्रानुपूर्व्यधिकारात्, ततो यदि लोकप्रदेशा: 10 सामस्त्येनैवानुपूर्व्या क्रोडीकृताः स्युस्तदा किमन्यदनानुपूर्व्यवक्तव्यकतया प्रतिपद्येत ? यस्त्विहैव येष्वाकाशप्रदेशेष्वानुपूर्व्यास्तेष्वेवेतरयोरपि सद्भावः कथयिष्यते स द्रव्यावगाह भेदेन क्षेत्रभेदस्य विवक्षणात्, अत्र तु तदविवक्षणादिति, तस्मादनानुपूर्व्यवक्तव्यकविषयप्रदेशत्रयलक्षणेन देशेन लोकस्योनता विवक्षितेति।अथवाआनुपूर्वीद्रव्यस्य स्वावयवरूपा देशा: कल्प्यन्ते, यथा पुरुषस्याङ्गुल्यादयः, ततश्च विवक्षिते कस्मिंश्चिद्देशे देशिनोऽसद्भावो 15 विवक्ष्यते यथा पुरुषस्यैवाङ्गुलीदेशे, देशत्वस्यैव तत्रप्राधान्येन विवक्षितत्वादितिभावः।नच वक्तव्यं देशिनोदेशोनकश्चिद्भिन्नो दृश्यते, एकान्ताभेदेदेशमात्रस्यदेशिमात्रस्य वाऽभावप्रसङ्गात्, ततश्चसमस्तलोकक्षेत्रावगाहपर्यायस्यप्राधान्याश्रयणादत्राचित्तमहास्कन्धस्याऽऽनुपूर्वीत्वेऽपि देशोन एव लोकः, स्वकीयैकस्मिन् देशे तस्याभावविवक्षणात्, तस्मिंश्चानुपूर्व्यव्याप्तदेशे इतरयोरवकाश: सिद्धो भवतीति भावः । न च देशदेशिभाव: कल्पनामात्रम्, सम्मत्यादि - 20 [गा० ३७] न्यायनिर्दिष्टयुक्तिसिद्धत्वादित्यलं प्रसङ्गेन । नाणादव्वाइमित्यादि, त्र्यादिप्रदेशावगाढद्रव्यभेदतोऽत्रानुपूर्वीणांनानात्वम्, तैश्चत्र्यादिप्रदेशावगालैर्द्रव्यभेदैः सर्वोऽपि लोको व्याप्त इति भावः।
अनानुपूर्वीचिन्तायामेकद्रव्यं प्रतीत्यलोकस्यासङ्खयेयभागवर्तित्वमेव, एकप्रदेशावगाढस्यैवानानुपूर्वीत्वेन प्रतिपादनात्, एकप्रदेशस्य च लोकासङ्ख्येयभागवर्तित्वादिति। 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org