________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २०२
रेयकरणेण द्वितो लोगपुद्गलाणुभावोसव्वण्णुवयणतो सद्धेतो इत्यलंप्रसंगेन।
णाणादव्वाइं पडुच्च णियमा सव्वलोए वीत्यादि, अस्य भावनात्र्यादिप्रदेशावगाडैर्द्रव्यभेदैः सकललोकस्यैव व्याप्तत्वादिति । अनानुपूर्व्यालोचनायां
त्वेकद्रव्यं प्रतीत्य असंख्येयभाग एव, तस्य नियमत एवैकप्रदेशावगाढत्वात्। णाणादव्वाइं 5 पडुच्चणियमासव्वलोएत्ति, विशिष्टैकपरिणामवद्भिरेकैकप्रदेशावगाढेरपिसमग्रलोकव्याप्ते:,
आधेयभेदेन चाऽऽधारभेदोपपत्तेः, वस्तुनश्चानन्तधर्मात्मकत्वात् तत्तत्सहकारिकारणसन्निधाने सति तस्य तस्य धर्मस्याभिव्यक्तेः धर्मभेदेन च क्षेत्रप्रदेशाविशेषेऽप्यानुपूर्वीतराभिधानप्रवृत्तेरपि(रिति) सूक्ष्मधिया भावनीयम् । एवं अवत्तव्वगदव्वाणि वि, भावार्थ उक्त एव, नवरमवक्तव्यकैकद्रव्यं द्विप्रदेशावगाढं भवति।
हे० १५२] क्षेत्रद्वारे निर्वचनसूत्रे एगदव्वं पडुच्च लोयस्स संखेजइभागे वा होजेत्यादि । इह स्कन्धद्रव्याणां विचित्रस्वरूपत्वात् कश्चित् स्कन्धो लोकस्य सङ्ख्येयं भागमवगाह्य तिष्ठ ति, अन्यस्त्वसङ्ख्ये यं भागमवगाह्य तिष्ठति, अन्यस्तु सङ्ख्येयाँस्तद्भागानवगाह्य वर्तते, अन्यस्त्वसङ्ख्येयानित्यतस्तत्तत्स्कन्धद्रव्यापेक्षया
सङ्ख्येयादिभागवर्तित्वं भावनीयम्, विशिष्टक्षेत्रावगाहोपलक्षितानां स्कन्धद्रव्याणामेव 15 क्षेत्रानुपूर्वीत्वेनोक्तत्वादिति [ग्रन्थाग्रम् २०००] भावः।
देसूणे वा लोए होज्जत्ति, देशोने वा लोके आनुपूर्वीद्रव्यं भवेदिति । अत्राऽऽहनन्वचित्तमहास्कन्धस्य सर्वलोकव्यापित्वं पूर्वमुक्तम्, तस्य च समस्तलोकवर्त्यसङ्ख्येयप्रदेशलक्षणायां क्षेत्रानुपूर्व्यामवगाढत्वात् परिपूर्णस्यापि क्षेत्रानुपूर्वीत्वं न किञ्चिद् विरुध्यते,
अतस्तदपेक्षं क्षेत्रतोऽप्यानुपूर्वीद्रव्यं सर्वलोकव्यापि प्राप्यते, किमिति देशोनलोकव्यापिता 20 प्रोच्यते ? सत्यम्, किन्तु लोकोऽयमानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्यैः सर्वदैवाशून्य एवैष्टव्य
इतिसमयस्थितिः, यदि चात्रानुपूर्व्याः सर्वलोकव्यापिता निर्दिश्येत तदाऽनानुपूर्व्यवक्तव्यकद्रव्याणां निरवकाशतयाऽभावः प्रतीयेत, ततो महास्कन्धपूरितेऽपि लोके जघन्यतोऽप्येक: प्रदेशोऽनानुपूर्वीविषयत्वेन प्रदेशद्वयं चावक्तव्यकविषयत्वेन विवक्ष्यते, आनुपूर्वीद्रव्यस्य तत्र सत्त्वेऽप्यप्राधान्यविवक्षणादनानुपूर्व्यवक्तव्यकयोस्तुप्राधान्यविवक्षणादितिभावः, ततोऽनेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org