________________
अनुयोगद्वारसूत्रम् [ सू० १३१-१३३]
१८५
अत्र च जीव-पुद्गलानां गत्यन्यथाऽनुपपत्तेधर्मास्तिकायस्य तेषामेव स्थित्यन्यथाऽनुपपत्तेरधर्मास्तिकायस्य सत्त्वं प्रतिपत्तव्यम्, न च वक्तव्यम् – तद्गति-स्थिती चभविष्यतो धर्माधर्मास्तिकायौ च न भविष्यत इति प्रतिबन्धाभावादनैकान्तिकतेति, तावन्तरेणापि तद्भवनेऽलोकेऽपि तत्प्रसङ्गात् । यदि तु अलोकेऽपि तद्गति-स्थिती स्यातां तदाऽलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीव-पुद्गलानां तत्र प्रवेशादेकद्वित्रादिजीवपुद्गलयुक्तः सर्वथा 5 तच्छून्यो वा कदाचिल्लोक: स्यात्, न चैतद् दृष्टमिष्टं वेत्याद्यन्यदपि दूषणजालमस्ति, न चोच्यते ग्रन्थविस्तरभयादिति । आकाशं तु जीवादिपदार्थानामाधारान्यथाऽनुपपत्तेरस्तीति श्रद्धेयम् । न च धर्माधर्मास्तिकायावेव तदाधारो भविष्यति इति वक्तव्यं तयोस्तद्गतिस्थितिसाधकत्वेनोक्तत्वात्, न चान्यसाध्यं कार्यमन्यः साधयति, अतिप्रसङ्गादिति । घटादिज्ञानगुणस्य प्रतिप्राणि स्वसंवेदनसिद्धत्वाज्जीवस्यास्तित्वमवसातव्यम्, न च 10 गुणिनमन्तरेण गुणसत्ता युक्ता अतिप्रसङ्गात्, न च देह एवास्य गुणी युज्यते, यतो ज्ञानममूर्ती चिद्रूपं सदैवेन्द्रियगोचरातीतत्वादिधर्मोपेतम्, अत: तस्यानुरूप एवकश्चिद्गुणी समन्वेषणीय:, स च जीव एव, न तु देहो विपरीतत्वात्, यदि पुनरननुरूपोऽपि गुणानां गुणी कल्प्यते तीनवस्था रूपादिगुणानामप्याकाशादेर्गुणित्वकल्पनाप्रसङ्गादिति । पुद्गलास्तिकायस्य तु घटादिकार्यान्यथानुपपत्तेः प्रत्यक्षत्वाच्च सत्त्वं प्रतीतमेवेति । कालोऽप्यस्ति, बकुला- 15 ऽशोक-चम्पकादिषु पुष्पफलप्रदानस्यानियमेनादर्शनात्, यस्तु तत्र नियामकः स काल: इति, स्वभावादेव तु तद्भवने नित्यं सत्त्वमसत्त्वं वा [प्रमाणवा०३।३५] इत्यादिदूषणप्रसङ्गः, अत्र बहु वक्तव्यम्, तत्तु नोच्यते ग्रन्थदुरवगमताभयादिति । आह-धर्मास्तिकायस्य प्राथम्यमधर्मास्तिकायादीनांतु तदनन्तरंक्रमेणेत्थं निर्देश:कुत: सिद्धोयेनात्र पूर्वानुपूर्वीरूपता स्यादिति ? अत्रोच्यते- आगमे इत्थमेव पठितत्वात् । तत्रापि कथमित्थमेव पाठ इति चेत्, 20 उच्यते, धर्मास्तिकाय इत्यत्र यदाद्यं धर्मेतिपदं तस्य माङ्गलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यास: ततस्तत्प्रतिपक्षत्वादधर्मास्तिकायस्य, ततस्तदाधारत्वादाकाशास्तिकायस्य, ततःस्वाभाविकामूर्तत्वसाम्याज्जीवास्तिकायस्य, ततस्तदुपयोगित्वात् पुद्गलास्तिकायस्य, ततो जीवाजीवपर्यायत्वात् तदनन्तरमद्धासमयस्योपन्यास इति पूर्वानुपूर्वीसिद्धिरिति ।
अथ पश्चानुपूर्वी निरूपयितुमाह- से किं तं पच्छाणुपुव्वीत्यादि, पाश्चात्त्यादारभ्य 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org