________________
आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १८४
-
१
तत्राद्यभेदं तावन्निरूपयितुं प्रश्नमाह से किं तमित्यादि । इह च द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादीनामेव च द्रव्यत्वादित्थं निर्वचनमाह - धम्मत्थिकाए इत्यादि, तत्र जीवपुद्गलानां स्वतः एव गतिक्रियापरिणतानां तत्स्वभावधरणाद् धर्म:, अस्तय: प्रदेशा:, तेषां काय:सङ्घातोऽस्तिकाय:, धर्म्मश्चासावस्तिकायश्चेति समासः, सकललोकव्याप्यसङ्ख्येय5 प्रदेशात्मकोऽमूर्त द्रव्यविशेषः इत्यर्थः । जीव- पुद्गलानामेव तथैव गतिपरिणतानां तत्स्वभावाधरणादधर्मः, जीव- पुद्गलानां स्थित्युपष्टम्भकारक इत्यर्थः । शेषं धर्मास्तिकायवत् सर्वम् । सर्वभावाकाशनादाकाशम्, आ मर्यादया तत्संयोगेऽपि स्वकीयस्वकीयस्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया काशन्ते स्वभावलाभेन अवस्थितिकरणे न च दीप्यन्ते पदार्थसार्था यत्र तदाकाशमिति, अथवा आ अभिविधिना सर्वात्मना 10 तत्संयोगानुभवनलक्षणेन काशन्ते तथैव दीप्यन्ते पदार्था यत्र तदाकाशमिति भावः । तच्च तदस्तिकायश्चेति आकाशास्तिकायः, लोकालोकव्याप्यनन्तप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः । जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवाः, ते च तेऽस्तिकायाश्चेति समासः, प्रत्येकमसंख्येयप्रदेशात्मकसकललोकभाविनानाजीवद्रव्यसमूह इत्यर्थः । पूरण - गलनधर्म्माणः पुद्गलाः परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ता:, ते हि कुतश्चिद् द्रव्याद् 15 गलन्ति वियुज्यन्ते, किञ्चित्तु द्रव्यं तत्संयोगतः पूरयन्तीति भावः । ते च तेऽस्तिकायाश्चेति समासः । अद्धाशब्दः कालवचन:, समय: सङ्केतादिवाचकोऽप्यस्ति, ततो विशेष्यतेअद्धारूपः समयोऽद्धासमयः, वक्ष्यमाणपट्टसाटिकादिपाटनदृष्टान्तसिद्धः सर्वसूक्ष्मः पूर्वाऽपरकोटिविप्रमुक्तो वर्तमान एक: कालांश इत्यर्थः, अत एवात्र अस्तिकायत्वाभावः बहुप्रदेशत्व एव तद्भावात्, अत्रत्वतीता - ऽनागतयोर्विनष्टा ऽनुत्पन्नत्वेन वर्तमानस्यैकस्यैव 20 कालप्रदेशस्य सद्भावात् । नन्वेवमावलिकादिकालाभाव:, समयबहुत्व एव तदुपपत्तेरिति चेत्, भवतु तर्हि, को निवारयिता ? समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य [अनुयोगद्वारे सू० ३६५, आवश्यकनि० ६६३] इत्याद्यागमविरोध इति चेत्, नैवम्, अभिप्रायापरिज्ञानात्, व्यवहारनयमतेनैव तत्र तत्सत्त्वाभ्युपगमात्, अत्र तु निश्चयनयमतेन तदसत्त्वप्रतिपादनात्, न हि पुद्गलस्कन्धे परमाणुसङ्घात इवावलिकादिषु समयसङ्घातः 25 कश्चिदवस्थित: समस्तीति तदसत्त्वमसौ प्रतिपद्यत इत्यलं चर्च्चयेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org