________________
अनुयोगद्वारसूत्रम् [ सू० १३१-१३३]
१८३
गति-स्थिती अपेक्षाकारणवत्यौ कार्यत्वाद् घटवत्, विपक्षस्त्रैलोक्यशुषिरमभावो वेत्यलं प्रसंगेन, गमनिकामात्रमेतत् ।
आह- आकाशास्तिकायसत्ता कथमवगम्यते ? उच्यते - अवगाहदर्शनात्, तथा चोक्तम् – अवगाहलक्षणमाकाशम् [ ] इति । आह- जीवास्तिकायसत्ता कथमवगम्यते ? उच्यते - अवग्रहादीनां स्वसंवेदनसिद्धत्वात्। पुद्गलास्तिकायसत्ता- 5 ऽनुमानतः, घटादिकार्योपलब्धेः, सांव्यवहारिकप्रत्यक्षतश्चेति । आह- कालसत्ता कथमवगम्यते ? उच्यते-- बकुल-चम्पका-ऽशोकादिपुष्प-फलप्रदानस्यानियमेनाऽदर्शनात्, नियामकश्च काल इति।
आहपूर्वानुपूर्वीत्वममीषामित्थमेव किं कृतम् ? इति, अत्रोच्यते - इत्थमेवोपन्यासवृत्तेः । आह - इत्थमेव क्रमेण धर्मास्तिकायाद्युपन्यास एव किमर्थम् ? 10 इति, उच्यते - धर्मास्तिकायादिपदस्य माङ्गलिकत्वाद् धर्मास्तिकायस्य प्रथममुपन्यासः गतिक्रियाहेतुत्वाच्च, पुनर्धर्मास्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्य, पुनस्तदाधारत्वादाकाशास्तिकायस्य, पुनः प्रकृत्याऽमूर्तिसाम्याज्जीवास्तिकायस्य, पुनस्तदुपयोगित्वात् पुद्गलास्तिकायस्य, पुनर्जीवा-ऽजीवपर्यायत्वादद्धासमयस्येति ।
से किं तं पच्छाणुपुव्वीत्यादि, पश्चात्प्रभृति प्रतिलोमपरिपाटी पश्चानुपूर्वी, 15 उदाहरणमुत्क्रमेणेदमेव अद्धासमय इत्यादि निगदसिद्धम् ।
[हे० १३१-१३३] गताऽनौपनिधिकी द्रव्यानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेवोपनिधिकीं तांव्याचिख्यासुराह -से किं तमित्यादि।अथकेयं प्रागनिर्णीतशब्दार्थमात्राऔपनिधिकी द्रव्यानुपूर्वीति प्रश्नः । अत्र निर्वचनम्- औपनिधिकी द्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वीत्यादि, उपनिधिर्निक्षेपो विरचनं प्रयोजनमस्या इत्यौपनिधिकी 20 द्रव्यविषयाऽऽनुपूर्वी परिपाटिर्द्रव्यानुपूर्वी, सा त्रिप्रकारा, तत्र विवक्षितधर्मास्तिकायादिद्रव्यविशेषसमुदाये यः पूर्वः प्रथमस्तस्मादारभ्यानुपूर्वी अनुक्रम: परिपाटिः निक्षिप्यते विरच्यते यस्यां सा पूर्वानुपूर्वी । तत्रैव य: पाश्चात्त्यः चरमस्तस्मादारभ्य व्यत्ययेनैवानुपूर्वी परिपाटि: विरच्यते यस्यां सा निरुक्तविधिना पश्चानुपूर्वी । न आनुपूर्वी अनानुपूर्वी, यथोक्तप्रकारद्वयातिरिक्तस्वरूपेत्यर्थः ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org