________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १८२
चरमादारभ्य व्यत्ययेनैवानुपूर्वी पश्चानुपूर्वी । न आनुपूर्वी [अनानुपूर्वी] यथोक्तप्रकारद्वयातिरिक्तरूपेत्यर्थः।
से किन्तमित्यादि । तत्र द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादीनामेव च द्रव्यत्वादिदमाह - धम्मत्थिकाए इत्यादि, तत्र जीव-पुद्गलानां स्वाभाविके क्रियावत्त्वे 5 गतिपरिणतानां तत्स्वभावधारणाद् धर्मः, अस्तय: प्रदेशाः, तेषां कायः सङ्घात:
अस्तिकायः, धर्मश्चासावस्तिकायश्चेति समासः। तथा जीव-पुद्गलानांस्वाभाविके क्रियावत्त्वे तत्परिणतानां तत्स्वभावाधारणादधर्मः, शेषं धर्मास्तिकायवत् । तथा सर्वद्रव्यस्वभावाऽऽदीपनादाकाशम्, स्वभावलाभावस्थानभावादित्यर्थः, आशब्दो मर्यादा
ऽभिविधिवाची, मर्यादायामाकाशे भवन्ति भावा: स्वात्मनि च, तत्संयोगेऽपि स्वभाव 10 एवावतिष्ठन्ते नाकाशभावमेव यान्ति, अभिविधौ तु सर्वभावव्यापनादाकाशम्, सर्वात्मसंयोगादिति भावः, शेषं धर्मास्तिकायवत् । तथा जीवति जीविष्यति जीवितवान् जीवः, शेषं पूर्ववत् । तथा पूरण-गलनधर्माण: पुद्गलाः, त एवास्तिकाय: पुद्गलास्तिकाय इति, अनेन सावयवानेकप्रदेशिकस्कन्धग्रहोऽप्यवगन्तव्यः। तथाऽद्धेत्ययं कालवचनः, स
एव निरंशत्वादतीता-ऽनागतयोर्विनष्टा-ऽनुत्पन्नत्वेनासत्त्वात् समयः, समूहाभाव इत्यर्थः। 15 आवलिकादय:सन्तीति चेत्, न, तेषां व्यवहारमात्रतयैवशब्दात्, तथाहि- नानेकपरमाणुनिर्वृत्तस्कन्धसमूहवद् आवलिकादिषु समयसमूह इति ।
आह- एषां कथमस्तित्वमवगम्यते ? इति, अत्रोच्यते - प्रमाणात, तच्चेदं प्रमाणम् – इह गतिः स्थितिश्च सकललोकप्रसिद्धा कार्यं वर्तते, कार्यं च
परिणाम्यपेक्षाकारणायत्तात्मलाभं वर्त्तते, घटादिकार्येषु तथा दर्शनात्, तथा च 20 मृत्पिण्डभावेऽपि दिग्-देश-काला-ऽऽकाश-प्रकाशाद्यपेक्षाकारणमन्तरेण नघटो भवति,
यदि स्याद् मृत्पिण्डमात्रादेव स्यात्, न [च] भवति, गति-स्थिती अपि जीवपुद्गलाख्यपरिणामिकारणभावेऽपि न धर्मा-[ऽधर्मा] स्तिकायाख्यापेक्षाकारणमन्तरेण भवत एव, यतश्च भावो दृश्यते अतस्तत्सत्ता गम्यत इति भावार्थः । गतिपरिणामपरिणतानां जीव
पुद्गलानांगत्युपष्टम्भको धर्मास्तिकायः, मत्स्यानामिव जलम्। तथा स्थितिपरिणामपरिणतानां 25 स्थित्युपष्टम्भक: अधर्मास्तिकाय:, मत्स्यानामिव मेदिनी विवक्षया जलं वा । प्रयोगश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org