________________
अनुयोगद्वारसूत्रम् [सू० ११७-१२०]
१७१
साम्प्रतं संग्रहनयमतेन तामेव व्याचिख्यासुराह- से किं तमित्यादि। सामान्यमात्रसंग्रहणशील: संग्रहो नयः, अथ तस्य संग्रहनयस्य किं तद्वस्त्वनौपनिधिकी द्रव्यानुपूर्वीति प्रश्नः। आह-ननु नैगम-संग्रह-व्यवहारे [तत्वार्थ०१।३३]त्यादिसूत्रक्रमप्रामाण्यान्नैगमानन्तरं संग्रहस्योपन्यासो युक्तः, तत् किमिति व्यवहारमपि निर्दिश्य ततोऽयमुच्यते ? इति, सत्यम्, किन्तु नैगम-व्यवहारयोरत्र तुल्यमतत्वाल्लाघवार्थंयुगपत् तन्निर्देशंकृत्वा पश्चात् संग्रहो निर्दिष्ट 5 इत्यदोषः। ___अत्र निर्वचनमाह-संगहस्स अणोवणिहिया दव्वाणुपुव्वी पंचविहा पण्णत्त त्ति संग्रहनयमतेनाप्यनौपनिधिकी द्रव्यानुपूर्वी प्राग्निरूपितशब्दार्था पञ्चभिरर्थपदप्ररूपणतादिभिः प्रकारैर्विचार्यमाणत्वात् पञ्चविधा पञ्चप्रकारा प्रज्ञप्ता। तदेव दर्शयतितंजहेत्यादि । अत्र व्याख्या पूर्ववदेव यावत् तिपएसिया आणुपुव्वी इत्यादि, इह 10 पूर्वमेकस्त्रिप्रदेशिक आनुपूर्वी, अनेके त्रिप्रदेशिका आनुपूर्व्य इत्याद्युक्तम्, अत्र तु संग्रहस्य सामान्यवादित्वात् सर्वेऽपि त्रिप्रदेशिका एकैवाऽऽनुपूर्वी, इमां चात्र युक्तिमयमभिधत्तेत्रिप्रदेशिका: स्कन्धास्त्रिप्रदेशिकत्वसामान्याद् व्यतिरेकिणोऽव्यतिरेकिणो वा ? यद्याद्य: पक्षस्तर्हि ते त्रिप्रदेशिका एवन भवन्ति, तत्सामान्यव्यतिरिक्तत्वात्, द्विप्रदेशिकादिवदिति। अथ चरमः पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरेकात्, तत्स्वरूपवत्, सामान्यं 15 चैकस्वरूपमेवेति सर्वेऽपि त्रिप्रदेशिका एकैवानुपूर्वी, एवं चतुष्प्रदेशिकत्वसामान्याव्यतिरेकात् सर्वेऽपि चतुष्प्रदेशिका एकैवानुपूर्वी, एवं यावदनन्तप्रदेशिकत्वसामान्याव्यतिरेकात् सर्वेऽप्यनन्तप्रदेशिका एकैवानुपूर्वीति अविशुद्धसंग्रहनयमतम् । विशुद्धसंग्रहनयमतेन तु सर्वेषां त्रिप्रदेशिकादीनामनन्ताणुकपर्यन्तानां स्कन्धानामानुपूर्वीत्वसामान्याव्यतिरेकाद् व्यतिरेके चानुपूर्वी त्वाभावप्रसङ्गात् सर्वाऽप्येकैवानुपूर्वी ति । एवमनानुपूर्वीत्व- 20 सामान्याव्यतिरेकात् सर्वेऽपि परमाणुपुद्गला एकैवानानुपूर्वी, तथाऽवक्तव्यकत्वसामान्याव्यतिरेकात् सर्वेऽपि द्विप्रदेशिकस्कन्धा एकमेवावक्तव्यकमिति। सामान्यवादित्वेन सर्वत्र बहुवचनाभावः । सेतमित्यादि निगमनम्।
[सू० ११७] एयाए णं संगहस्स अट्ठपयपरूवणयाए किं पओयणं?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org