SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभि: समेतम् १६८ सव्वत्थोवाइं नेगम-ववहाराणं अवत्तव्वगदव्वाइं दव्वट्ठयाए त्ति नैगम-व्यवहारयोः द्रव्यार्थतामपेक्ष्य तावदवक्तव्यकद्रव्याणि सर्वेभ्योऽन्येभ्यः स्तोकानि सर्वस्तोकानि, अनानुपूर्वीद्रव्याणि तु द्रव्यार्थतामेवापेक्ष्य विशेषाधिकानि, कथम् ? वस्तुस्थितिस्वाभाव्यात्, उक्तं च - एएसिंणं भंते ! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं कयरे कयरेहिंतो बहुया ? गोयमा ! दुपएसिएहिंतो खंधेहिंतो परमाणुपोग्गला बहुग [ ]त्ति । तेभ्योऽपिआनुपूर्वीद्रव्याणि द्रव्यार्थतयैवासङ्ख्येयगुणानि, यतोऽनानुपूर्वीद्रव्येष्ववक्तव्यक द्रव्येषु च परमाणुलक्षणं द्वयणुकस्कन्धलक्षणं चैकैकमेव स्थानं लभ्यते, आनुपूर्वीद्रव्येषु तु त्र्यणुकस्कन्धादीन्येकोत्तरवृद्धयाऽनन्ताणुकस्कन्धपर्यन्तान्यनन्तानि स्थानानि प्राप्यन्ते, अत:स्थानबहुत्वादानुपूर्वीद्रव्याणिपूर्वेभ्योऽसङ्ख्यातगुणानि। ननु यदितेषुस्थानान्यनन्तानि 10 तद्दनन्तगुणानि पूर्वेभ्यस्तानि कस्मान्न भवन्तीति चेत्, नैवम्, यतोऽनन्ताणुकस्कन्धाः केवलानानुपूर्वीद्रव्येभ्योऽप्यनन्तभागवर्तित्वात् स्वभावादेव स्तोका इति न किञ्चित्तैरिह वर्द्धते, अतो वस्तुवृत्त्या किलासङ्ख्यातान्येव तेषु स्थानानि, तदपेक्षया त्वसङ्ख्यातगुणान्येव तानि, एतच्च पूर्वं भागद्वारे लिखितप्रज्ञापनासूत्रात् सर्वं भावनीयमित्यलं विस्तरेण। 15 उक्तं द्रव्यार्थतया अल्पबहुत्वम्, इदानी प्रदेशार्थतया तदेवाऽऽह-पएसट्ठयाए सव्वत्थोवाई नेगमववहाराणमित्यादि, नैगमव्यवहारयोः प्रदेशार्थतया अल्पबहुत्वे चिन्त्यमाने अनानुपूर्वीद्रव्याणि सर्वेभ्यः स्तोकानि, कुत इत्याह-अपएसट्ठयाए त्ति प्रदेशलक्षणस्यार्थस्य तेष्वभावादित्यर्थः, यदि हि तेषु प्रदेशा: स्युस्तदा द्रव्यार्थतायामिव प्रदेशार्थतायामप्यवक्तव्यकापेक्षयाऽधिकत्वं स्यात्, न चैतदस्ति, परमाणुप्रदेश:[प्रशम० 20 २०८] इति वचनात् । अतः सर्वस्तोकान्येतानि । ननु यदि प्रदेशार्थता तेषु नास्ति तर्हि तया विचारोऽपि तेषां न युक्त इति चेत्, नैतदेवम्, प्रकृष्टः सर्वसूक्ष्मः पुद्गलास्तिकायस्य देशो निरंशो भाग: प्रदेश इति व्युत्पत्तेः प्रतिपरमाणु प्रदेशार्थताऽभ्युपगम्यत एव, आत्मव्यतिरिक्तप्रदेशान्तरापेक्षया त्वप्रदेशार्थतेत्यदोषः । अवक्तव्यकद्रव्याणि प्रदेशार्थतयाऽनानुपूर्वीद्रव्येभ्यो विशेषाधिकानि, यत: किलासत्कल्पनया अवक्तव्यकद्रव्याणां 25 षष्टिः अनानुपूर्वीद्रव्याणां तु शतम्, ततो द्रव्यार्थताविचारे एतानीतरापेक्षया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy