________________
अनुयोगद्वारसूत्रम् [सू० ११४]
अणेगे भवन्ति । अण्णे भणंति-चोद्दस हवंति, तदभिप्रायं तु न वयं सम्यगवगच्छाम: अतिगंभीरत्वादिति । एवं पञ्च[प]देसादिसु भावेयव्वं, सव्वण्णुवयेसतो य सद्धेयं, नान्यथावादिनो जिनाः। पदेसट्टयाए सव्वत्थोवाइंणेगम-ववहाराणमित्यादि, स्तोकत्वे कारणं अपदेसट्टयाए त्ति अप्रदेशार्थत्वेन, नास्य प्रदेशो विद्यत इत्यप्रदेश: परमाणुः । उक्तं च- परमाणुरप्रदेश: [प्रशम० २०८] इति, तद्भावस्तेन, अणोर्निरवयवत्वादित्यर्थः। 5 आह - प्रदेशार्थतया सर्वस्तोकानीत्यभिप्राये अप्रदेशार्थत्वेनेति कारणाभिधानमयुक्तम्, विरोधात्, स्वभावो हि हेतुर्यदि प्रदेशार्थता कथमप्रदेशार्थता ? इति, अत्रोच्यते - आत्मीयैकप्रदेशव्यतिरिक्त-प्रदेशान्तरप्रतिषेधापेक्षा प्रदेशार्थता, न पुनर्निजैकप्रदेशप्रतिषेधापेक्षाऽपि, धर्मिण एवाभावप्रसङ्गाद् विचारवैयर्थ्यप्रसङ्गात्, अलं विस्तरेण। अवत्तव्वगदव्वाइं पदेसठ्ठताए विसेसाधिताइं अनानुपूर्वीद्रव्येभ्य इति । अत्र 10 विनेयासम्मोहार्थमुदाहरणम् – बुद्धीए सयमेत्तं अवत्तव्वगदव्वा कया, अणाणुपुव्विदव्वा पुण दिवड्ढसयमेत्तगा, एवं द्रव्यत्वेन विशिष्टविशेषाधिका भवन्ति, पदेसत्तेणं पुण अणाणुपुब्विदव्वा अप्पणो दव्वठ्ठताए तुल्ला चेव, अपदेसत्तणओ, [अवत्तव्वगदव्वा पुण पदेसत्तणओ] विसिट्टविसेसाधिता दुसयमेत्ता भवंति । आणुपुग्विदव्वाइं पदेसट्ठताए अणंतगुणाई, तेहिंतो वि पदेसठ्ठताए आणुपुग्विदव्वाइं अणंतगुणाई। कथम् ? उच्यते – 15 आणुपुग्विदव्वाणं ठाणबहत्तणओ तेसिंच संखा-ऽसंखा-ऽणंतपदेसत्तणओ। उभयार्थता सूत्रसिद्धैव । सेत्तमित्यादि निगमनद्वयम्।
[हे०११४] उक्तंभावद्वारम्, इदानीमल्पबहुत्वद्वारं बिभणिषुराह - एतेसुणमित्यादि, द्रव्यमेवार्थो द्रव्यार्थः, तस्य भावो द्रव्यार्थता, तया, द्रव्यत्वेन इत्यर्थः । प्रकृष्टो निरंशो देश: प्रदेश: स चासावर्थश्च प्रदेशार्थः, तस्य भावः प्रदेशार्थता, तया, परमाणुत्वेनेति भावः। 20 द्रव्यार्थप्रदेशार्थतया तु यथोक्तोभयरूपतयेति भावः । तदयमर्थ:-एतेषां भदन्त ! आनुपूर्व्यादिद्रव्याणां मध्ये कयरे कयरेहिंतो त्ति कतराणि कान्याश्रित्य द्रव्यापेक्षया प्रदेशापेक्षया उभयापेक्षया वाऽल्पानि विशेषहीनत्वादिना, बहूनि असङ्ख्येयगुणत्वादिना, तुल्यानिसमसङ्ख्यत्वेन, विशेषाधिकानि किञ्चिदाधिक्येनेति, वाशब्दाः पक्षान्तरवृत्तिद्योतकाः, इति पृष्टे वाचः क्रमवर्तित्वाद्रव्यार्थतापेक्षया तावदुत्तरमुच्यते-तत्र 25 .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org