________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १६२
आचार्य आह- णमया भण्णइ तब्भागसमा ते दव्वा तब्भागत्थेसु वा दव्वेसु तेसमा, किंतु सेसदव्वाणं आणुपुब्विदव्वा असंखेज्जेसुभागेसुअधिया भवंतीति वक्कसेसो, सेसदव्वा असंखेज्जभागे भवन्तीत्यर्थः । अणाणुपुव्विदव्वा अवत्तव्वगदव्वा य आणुपुग्विदव्वाणं असंखेज्जभागे भवंति । सेसं सुत्तसिद्धमिति । द्वारम् ७।
[हे० ११२] उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारं निर्दिदिक्षुराह- नेगम-ववहाराणमित्यादि। नैगम-व्यवहारयोस्त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यन्तानि सर्वाण्याप्यानुपूर्वीद्रव्याणिशेषद्रव्याणां समस्तानामनानुपूर्व्यवक्तव्यकद्रव्यलक्षणानां कतिभागेहोज त्ति कतिथे भागे भवन्तीत्यर्थः, किं सङ्ख्याततमे भागे भवन्ति यथा असत्कल्पनया शतस्य विंशतिः, उताऽसङ्ख्याततमे भागे भवन्ति यथा शतस्यैव दश ? अथ सङ्ख्यातेषु भागेषु 10 भवन्ति यथा शतस्यैव चत्वारिंशत् षष्टिा, आहोश्विदसङ्ख्यातेषु भागेषु भवन्ति यथा
शतस्यैवाशीतिरिति प्रश्नः । अत्र निर्वचनम्-नो संखेज्जइभागे होज्जा इत्यादि। नियमा असंखेज्जेसु भागेसु होज्ज त्ति, इह तृतीयार्थे सप्तमी, ततश्चानुपूर्वीद्रव्याणि शेषेभ्योऽनानुपूर्व्यवक्तव्यकद्रव्येभ्योऽसङ्ख्येयैर्भाग: अधिकानि भवन्तीति वाक्यशेषो द्रष्टव्यः ।
ततश्चायमर्थः प्रतिपत्तव्य:- आनुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसङ्ख्येयगुणानि, शेषद्रव्याणि 15 तु तदसङ्ख्येयभागे वर्तन्ते, न पुन: शतस्याशीतिरिवानुपूर्वीद्रव्याणि शेषेभ्य: स्तोकानीति।
कस्मादेवं व्याख्यायते ? स्तोकान्यपि तानि भवन्त्विति चेत्, नैतदेवम्, अघटमानकत्वात्, तथाहि-अनानुपूर्व्यवक्तव्यकद्रव्येषु एकाकिन: परमाणुपुद्गला द्वयणुकाश्च स्कन्धा इत्येतावन्त्येव द्रव्याणि लभ्यन्ते, शेषाणि तु त्र्यणुकस्कन्धादीन्यनन्ताणुस्कन्धपर्यन्तानि द्रव्याणि
समस्तान्यप्यानुपूर्वीरूपाण्येव, तानि च पूर्वेभ्योऽसङ्ख्येयगुणानि, यत उक्तम्- एएसि णं 20 भंते ! परमाणुपोग्गलाणं संखेजपएसियाणं असंखेज्जपएसियाणं अणंतपएसियाण य
खंधाणं कयरे कयरेहितोअप्पा वा बहुया वातुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवा अणंतपएसिया खंधा, परमाणुपोग्गला अणंतगुणा, संखेज्जपएसिया खंधा संखेज्जगुणा, असंखेज्जपएसिया खंधा असंखेज्जगुणा [प्रज्ञापनासूत्रे तृतीयपदे सू० ३३०] । तदत्र सूत्रे पुद्गलजाते: सर्वस्या अपि सकाशादसङ्ख्यातप्रदेशिका: स्कन्धा असङ्ख्यातगुणा उक्ताः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org