________________
अनुयोगद्वारसूत्रम् [सू० १०८]
१५१
[हा० १०८] क्षेत्रमधुना, तत्रेदं सूत्रम् – णेगमववहाराणं आणुपुग्विदव्वाई लोयस्स किं संखेज्जइभागे होज्जा इत्यादि प्रश्नसूत्रम्, एकानुपूर्वीद्रव्यापेक्षया तत्प्रमाणसम्भवे सति प्रश्नसमं निर्वचनसूत्रं च ग्रन्थादेव भावनीयम् । नवरं सव्वलोए वा होज्ज त्ति यदुक्तम् अत्राचित्तमहास्कन्धः सर्वलोकव्यापकः समयावस्थायी सकललोकप्रमाणोऽवसेय इति । णाणादव्वाइं पडुच्च इत्यादि, नानाद्रव्याण्यानुपूर्वीपरिणामवन्त्येव 5 प्रतीत्य प्रकृत्य वा, अधिकृत्येत्यर्थः नियमात् नियमेन सर्वलोके, न शेषभागेष्विति, होज्जत्तिआर्षत्वाद्भवन्ति, वर्त्तन्त इत्यर्थः, यस्मादेकैकस्मिन्नाकाशप्रदेशे सूक्ष्मपरिणामपरिणतान्यनन्तान्यानुपूर्वीद्रव्याणि विद्यन्त इति भावना । अनानुपूर्व्यवक्तव्यकद्रव्ये तु एकद्रव्यं प्रतीत्य []संख्येयभाग एव वर्तेते न शेषभागेषु, यस्मात् परमाणुरेकप्रदेशावगाढ एव भवति, अवक्तव्यकं त्वेकप्रदेशावगाढं [द्विप्रदेशावगाढं] च । नानाद्रव्यभावना 10 पूर्ववदिति । द्वारम् ३।
हे० १०८] इदानी क्षेत्रद्वारमुच्यते-नेगम-ववहाराणमित्यादि । आनुपूर्वीद्रव्याणि किं लोकस्यैकस्मिन् सङ्ख्याततमे भागे होज्जत्ति आर्षत्वाद्भवन्ति, अवगाहन्त इति यावत्, यदिवा एकस्मिन्नसङ्ख्याततमे भागे भवन्ति, उत बहुषु सङ्खयेयेषु भागेषु भवन्ति, आहोश्विद्बहुष्वसङ्खचेयेषु भागेषु भवन्ति, अथ सर्वलोके भवन्तीति पञ्च 15 पृच्छास्थानानि । अत्र निर्वचनसूत्रस्येयं भावना- इहानुपूर्वीद्रव्याणि त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यवसानान्युक्तानि, तत्र चसामान्यत एकं द्रव्यमाश्रित्य तथाविधपरिणामवैचित्र्यात् किञ्चिल्लोकस्यैकस्मिन् सङ्ख्याततमेभागेभवति, एकं तत्सङ्ख्यातभागमवगाह्य तिष्ठतीत्यर्थः, अन्यत्तु तदसङ्ख्येयभागमवगाहते, अपरं तु बहूँस्तत्सङ्ख्येयान् भागानवगाहते, अन्यत्तु बहँस्तदसङ्ख्येयभागानवगाह्य वर्तते । सव्वलोए वा होज्ज त्ति 20 इहानन्तानन्तपरमाणुप्रचयनिष्पन्नं प्रज्ञापनादिप्रसिद्धाचित्तमहास्कन्धलक्षणमानुपूर्वीद्रव्यं समयमेकं सकललोकावगाहि प्रतिपत्तव्यमिति । कथं पुनरयमचित्तमहास्कन्धः सकललोकावगाही स्यात् ? उच्यते, समुद्घातवर्तिकेवलिवत्, तथाहि- लोकमध्यव्यवस्थितोऽसौ प्रथमसमये तिर्यगसङ्ख्यातयोजनविस्तरं सङ्ख्यातयोजनविस्तरं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org