________________
आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - म -मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् १४६
भावनीयः । सेत्तमित्यादि निगमनम् ।
[सू० १०५] से किं तं अणुगमे ? अणुगमे णवविहे पण्णत्ते । तंजहा - संतपयपरूवणया १, दव्वपमाणं च २, खेत्त ३, फुसणा य ४ । कालो य ५, अंतरं ६, भाग ७, भाव ८, अप्पाबहुं ९, चेव ॥८॥
5
[चू० १०५ ] इदाणिं से किं तं अणुगमे इत्यादि । अर्थानुगमनमनुगमः अनुरूपार्थगमनं वा अनुगम:, अणु सूत्रम्, तस्यानुगमनाद्वा अनुगम:, सूत्रानुकूलगमनं वा अनुगम:, एवं अर्थोभयेष्वपि वक्तव्यम्। [संतपय० गाधा] संतं विद्यमानं, किं तं ? पदं, तस्स अत्थकहणा परूवणा सा संतपदपरूवणा भण्णति । ते य अणुपुव्विमादिया तयो पदा। तेसिं अणुपुव्विमादियाणं दव्वाणं पमाणं वत्तव्वं । तेसिं चेव खेत्तावगाहो फुसणा 10 य, तेसिं चेव दव्वाणं तब्भाव अपरिच्चाएण ठितिकालो भाणितव्वो, तद्दव्वत्तेण सुण्णता अंतरं, आणुपुव्विदव्वा लोगस्स कतिभागे, एवं सेसा वि । ते दव्वा कतरंमि भावे, आणुपुव्वि-अणाणुपुव्वी- अवत्तव्वाण य परोप्परं अप्पबहुत्तणं वत्तव्वं ।
I
[हा० १०५] से किं तमित्यादि । अनुगमः प्राग्निरूपितशब्दार्थ एव नवविधो नवप्रकार: प्रज्ञप्त:, तद्यथा - सन्तपदपरूवणा (णया) गाहा । व्याख्या - सच्च तत् पदं 15 च सत्पदम्, तस्य प्ररूपणं सत्पदप्ररूपणम्, तस्य भावः सत्पदप्ररूपणता सदर्थगोचरा आनुपूर्व्यादिपदप्ररूपणता कार्या । तथा आनुपूर्व्यादिद्रव्यप्रमाणं च वक्तव्यम् । तथाऽऽनुपूर्व्यादिद्रव्याधारः क्षेत्रं वक्तव्यम् । तथा स्पर्शना च वक्तव्या । क्षेत्र - स्पर्शनयोरयं विशेषः– एगपदेसोगाढं सत्तपदेसा य से फुसणा [ ] । कालश्च आनुपूर्व्यादिस्थितिकालो वक्तव्यः । तथा अन्तरं स्वभावपरित्यागे सति पुनस्तद्भावप्राप्तिविरह इत्यर्थः । तथा 20 भागः इत्यानुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभाग इत्यादि । तथा भावो वक्तव्यः आनुपूर्व्यादिद्रव्याणि कस्मिन् भावे वर्त्तन्त इति । तथाऽल्पबहुत्वं वक्तव्यम्, आनुपूर्व्यादीनामेव मिथो द्रव्यार्थ-प्रदेशार्थोभयार्थैः । व्यासार्थं तु प्रत्यवयवं ग्रन्थकार एव प्रपञ्चतो वक्ष्यति इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org