________________
अनुयोगद्वारसूत्रम् [सू० १०५,१०६]
[ हे० १०५] उक्तः समवतार:, अथानुगमं बिभणिषुरुपक्रमते से किं तमित्यादि । अत्रोत्तरम् - अणुगमे नवविहे इत्यादि । तत्र सूत्रस्यानुकूलमनुरूपं वा गमनं व्याख्यानमनुगमः, अथवा सूत्रपठनादनु पश्चाद्गमनं व्याख्यानमनुगमः, यदिवा अनुसूत्रमर्थो गम्यते ज्ञायते अनेनेत्यनुगमो व्याख्यानमेव, इत्याद्यन्यदपि वस्त्वविरोधेन स्वधिया वाच्यमिति । स च नवविधो नवप्रकारो भवति । तदेव नवविधत्वं दर्शयति - तद्यथेत्युप - 5 दर्शनार्थः ।
Jain Education International
संतपय गाहा, व्याख्या - सदर्थविषयं पदं सत्पदम्, तस्य प्ररूपणं प्रज्ञापनं सत्पदप्ररूपणम्, तस्य भावः सत्पदप्ररूपणता, सा प्रथमं कर्तव्या । इदमुक्तं भवति - इह स्तम्भ - कुम्भादीनि पदानि सदर्थविषयाणि दृश्यन्ते, खरशृङ्ग- व्योमकुसुमादीनि त्वसदर्थविषयाणि, तत्राऽऽनुपूर्व्यादिपदानि किं स्तम्भादिपदानीव सदर्थविषयाण्याहोश्वित् 10 खरविषाणादिपदवत् असदर्थगोचराणीत्येतत् प्रथमं पर्यालोचयितव्यम् १, तथा आनुपूर्व्यादिपदाभिधेयद्रव्याणां प्रमाणं सङ्ख्यास्वरूपं प्ररूपणीयम् २, चः समुच्चये, एवमन्यत्रापि, तथा तेषामेव क्षेत्रं तदाधारस्वरूपं प्ररूपणीयम्, कियति क्षेत्रे तान भवन्तीति चिन्तनीयमित्यर्थः ३, तथा स्पर्शना च वक्तव्या, कियत् क्षेत्रं तानि स्पृशन्तीति चिन्तनीयमित्यर्थः ४, तथा कालश्च तत् स्थितिलक्षणो वक्तव्यः ५, तथा अन्तरं 15 विवक्षितस्वभावपरित्यागे सति पुनस्तद्भावप्राप्तिविरहलक्षणं प्ररूपणीयम् ६, तथा आनुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभागे वर्तन्ते इत्यादिलक्षणो भागः प्ररूपणीयः ७, तथा आनुपूर्व्यादिद्रव्याणि कस्मिन् भावे वर्तन्ते इत्येवंरूपो भावः प्ररूपणीय: ८, तथा अल्पबहुत्वं चानुपूर्व्यादिद्रव्याणां द्रव्यार्थ प्रदेशार्थी भयार्थताश्रयणेन परस्परं स्तोकबहुत्वचिन्तालक्षणं प्ररूपणीयम् ९, एवकारोऽवधारणे, एतावत्प्रकार एवानुगम इति 20 गाथासमासार्थः।
-
१४७
-
[सू० १०६] [१] नेगम-ववहाराणं आणुपुव्वीदव्वाइं किं अत्थि णत्थि ? णियमा अत्थि ।
For Private & Personal Use Only
www.jainelibrary.org