________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १३६
परमाणुस्तस्य द्रव्यत: अनवयवत्वाद् आदि-मध्या-ऽवसानत्वाभावाद् अनानुपूर्वीत्वम् । यस्तु द्विप्रदेशिकः स्कन्धस्तस्याप्याद्यन्तव्यपदेशः परस्परापेक्षयाऽस्तीति कृत्वा अनानुपूर्वीत्वमशक्यं प्रतिपत्तुम्, अथाऽऽनुपूर्वीत्वं प्रसक्तं तदपि चावधिभूतवस्तुरूपस्यासम्भवाद्अपरिपूर्णत्वाद्न शक्यते वक्तुमिति उभाभ्यामवक्तव्यत्वाद् अवक्तव्यकमुच्यते, यस्मान्मध्ये सति मुख्य आदिर्लभ्यते मुख्यश्चान्त: परस्परासङ्करेण, तदत्र मध्यमेव नास्तीति कृत्वा कस्याऽऽदिः कस्य वाऽन्त इति कृत्वा व्यपदेशाभावात् स्फुटमवक्तव्यकम् । तिपदेसिया आणुपुव्वीओ इत्यादि, बहुवचननिर्देशः किमर्थोऽयम् ? इति चेत्, आनुपूर्व्यादीनां प्रतिपदमनन्तव्यक्तिख्यापनार्थः, नैगम-व्यवहारयोश्चेत्थम्भूताभ्युपगमप्रदर्शनार्थ इति।अत्राह- एषांपदानां द्रव्यवृद्धयनुक्रमादेवमुपन्यासोयुज्यते - अनानुपूर्वी 10 अवक्तव्यकम् आनुपूर्वी च, पश्चानुपूर्व्या च व्यत्ययेन, तत् किमर्थमुभयमुल्लङ्घयान्यथा
कृत इति, अत्रोच्यते- अनानुपूर्व्यपि व्याख्यानाङ्गमिति ख्यापनार्थम् । किञ्चान्यत्, आनुपूर्वीद्रव्यबहुत्वज्ञापनार्थं स्थानबहुत्वज्ञापनार्थं चादावानुपूा उपन्यासः, ततोऽल्पतरद्रव्यत्वादवक्तव्यकस्येत्यलं विस्तरेण । सेत्त मित्यादि निगमनम् ।
हे० ९९] तत्राऽऽद्यभेदं विवरीषुराह- से किं तं नेगम-ववहाराणमित्यादि। अथ 15 केयं नैगम-व्यवहारयोःसम्मता अर्थपदप्ररूपणतेति। अत्रोत्तरमाह- नेगम-ववहाराण
मित्यादि । तत्र त्रय: प्रदेशा: परमाणुत्रयलक्षणा यत्र स्कन्धे स आनुपूर्वीत्युच्यते, एवं यावदनन्ता अणवो यत्र सोऽनन्ताणुकः सोऽप्यानुपूर्वीत्युच्यते । परमाणुपोग्गले त्ति एकः परमाणुः परमाण्वन्तरासंसक्तोऽनानुपूर्वीत्यभिधीयते, द्वौ प्रदेशौ यत्र स द्विप्रदेशिक:
स्कन्धोऽवक्तव्यकमित्याख्यायते, बहवस्त्रिप्रदेशिकादयः स्कन्धा आनुपूर्व्यः, 20 बहवश्चैकाकिपरमाणवोऽनानुपूर्व्यः, बहूनि च व्यणुकस्कन्धद्रव्याण्यवक्तव्यकानि ।
आनुपूर्त्या प्रक्रान्तायामनानुपूर्व्यवक्तव्यकयोः प्ररूपणमसङ्गतमिति चेत्, न, तत्प्रतिपक्षत्वात्तयोरपि प्ररूपणीयत्वात्, प्रतिपक्षपरिज्ञाने च प्रस्तुतवस्तुनः सुखावसेयत्वादिति भावार्थः । इहाऽऽनुपूर्वी अनुपरिपाटिरिति पूर्वमुक्तम्, सा च यत्रैवादि-मध्याऽन्तलक्षण: सम्पूर्णो गणनानुक्रमोऽस्ति तत्रैवोपपद्यते, नान्यत्र, एतच्च त्रिप्रदेशिकादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org