________________
अनुयोगद्वारसूत्रम् [सू० ९९]
१३७
स्कन्धेष्वेव, तथाहि-यस्मात् परमस्ति न पूर्वं स आदिः, यस्मात् पूर्वमस्ति न परं सोऽन्त:, तयोश्चान्तरं मध्यमुच्यते, अयं संपूर्णो गणनानुक्रमस्त्रिप्रदेशादिस्कन्ध एव, न परमाणौ, तस्यैकद्रव्यत्वेनाऽऽदि-मध्या-ऽन्तव्यवहाराभावात्, अत एवायमनानुपूर्वीत्वेनोक्तः, नापि द्वयणुकस्कन्धे, तत्रापि मध्याभावेन सम्पूर्णगणनानुक्रमाभावात्।
अत्राऽऽह - ननु पूर्वस्यानु पश्चादनुपूर्वं तस्य भाव आनुपूर्वीति पूर्वं व्याख्यातम्, 5 एतच्च द्वयणुकस्कन्धेऽपि घटत एव, परमाणुद्वयस्यापि परस्परापेक्षया पूर्व-पश्चाद्भावस्य विद्यमानत्वात्, ततः सम्पूर्णगणनानुक्रमाभावेऽपि कस्मादयमप्यानुपूर्वी नभवति? नैतदेवम्, यतो यथामेर्वादिके क्वचित् पदार्थेमध्येऽवधौ व्यवस्थापितेलोके पूर्वादिविभाग:प्रसिद्धस्तथा यद्यत्रापि स्यात्तदा स्यादप्येवम्, न चैवमत्रास्ति, मध्येऽवधिभूतस्य कस्यचिदभावतोऽसाङ्कर्येण पूर्व-पश्चाद्भावस्यासिद्धत्वात् । यद्येवं परमाणुवद् व्यणुकस्कन्धो- 10 ऽप्यनानुपूर्वीत्वेन कस्मान्नोच्यते ? सत्यम्, किन्तु परस्परापेक्षया पूर्व-पश्चाद्भावमात्रस्य सद्भावादेवमप्यभिधातुमशक्योऽसौ, तस्मादानुपूर्व्यनानुपूर्वीप्रकाराभ्यां वक्तुमशक्यत्वादवक्तव्यकमेवव्यणुकस्कन्धः । तस्माद्वयवस्थितमिदम्- आदि-मध्या-ऽन्तभावेनावधिभूतं मध्यवर्तिनमपेक्ष्यासाङ्कर्येण मुख्यस्य पूर्व-पश्चाद्भावस्य सद्भावात् त्रिप्रदेशादिस्कन्ध एवाऽऽनुपूर्वी, परमाणुस्तूक्तयुक्त्याऽनानुपूर्वी, द्वयणुकोऽवक्तव्यकमिति । एवं 15 संज्ञासंज्ञिसम्बन्धकथनरूपा अर्थपदप्ररूपणा कृता भवति । यद्येवं त्रिप्रदेशिका आनुपूर्व्य इत्यादिबहुवचननिर्देश: किमर्थम्, एकत्वमात्रेणैव संज्ञासंज्ञिसम्बन्धकथनस्य सिद्धत्वात् ? सत्यम्, किन्त्वानु पूादिद्रव्याणां प्रतिभेदमनन्तव्यक्ति ख्यापनार्थो नै गमव्यवहारयोरित्थंभूताभ्युपगमप्रदर्शनार्थश्च बहुत्वनिर्देश इत्यदोषः।
अत्राऽऽह - नन्वनानुपूर्वीद्रव्यमेकेन परमाणुना निष्पद्यते, अवक्तव्यकद्रव्यं 20 परमाणुद्वयेन, आनुपूर्वीद्रव्यं तु जघन्यतोऽपि परमाणुत्रयेणेति, इत्थं द्रव्यवृद्धया पूर्वानुपूर्वीक्रममाश्रित्य प्रथममनानुपूर्वी ततोऽवक्तव्यकं ततश्चाऽऽनुपूर्वीत्येवं निर्देशो युज्यते, पश्चानुपूर्वीक्रमाश्रयणे तु व्यत्ययेन युक्तः, तत् कथं क्रमद्वयमुल्लध्यान्यथा निर्देशः कृतः ? सत्यमेतत्, किन्त्वनानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनार्थः, यदि वा त्र्यणुकचतुरणुकादीन्यानुपूर्वीद्रव्याण्यनानुपूर्व्यवक्तव्यकद्रव्येभ्यो बहूनि तेभ्योऽनानुपूर्वी- 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org