________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १३४
अनुगम: आनुपूर्व्यादीनामेव सत्पदप्ररूपणादिभिरनुयोगद्वारैरनेकधाऽनुगमनमनुगम इति।
[हे० ९८] तत्र नैगम-व्यवहारसंमतामिमां दर्शयितुमाह- से किं तमित्यादि। अत्र निर्वचनम् - नेगम-ववहाराणं अणोवणिहिआ दव्वाणुपुव्वी पंचविहेत्यादि ।
अर्थपदप्ररूपणतादिभिः पञ्चभिः प्रकारैर्विचार्यमाणत्वात् पञ्चविधा पञ्चप्रकारा प्रज्ञप्ता, 5 तद्यथा - अर्थपदप्ररूपणता, भङ्गसमुत्कीर्तनता, भङ्गोपदर्शनता, समवतारः,
अनुगमः । एभिः पञ्चभिः प्रकारैर्नंगम-व्यवहारनयमतेन अनौपनिधिक्या: द्रव्यानुपूर्व्याः स्वरूपं निरूप्यत इतीह तात्पर्यम् । तत्र अर्यत इत्यर्थ: त्र्यणुकस्कन्धादिस्तद्युक्तं तद्विषयं वा पदमानुपूर्व्यादिकम्, तस्य प्ररूपणं कथनम्, तद्भावोऽर्थपदप्ररूपणता इयमानुपूर्व्यादिका
संज्ञा, अयं च तदभिधेयस्त्र्यणुकादिरर्थः संज्ञी' इत्येवं संज्ञासंज्ञिसम्बन्धकथनमात्रं प्रथम 10 कर्तव्यमिति भावार्थः । तेषामेवानुपूर्व्यादिपदानां समुदितानां वक्ष्यमाणन्यायेन सम्भविनो विकल्पा भङ्गा उच्यन्ते, भज्यन्ते विकल्प्यन्ते इति कृत्वा, तेषां समुत्कीर्तनं समुच्चारणं भङ्गसमुत्कीर्तनम्, तद्भावो भङ्गसमुत्कीर्तनता, आनुपूर्व्यादिपदनिष्पन्नानां प्रत्येकभङ्गानां द्वयादिसंयोगभङ्गानां च समुच्चारणमित्यर्थः । तेषामेव सूत्रमात्रतया अनन्तर
समुत्कीर्तितभङ्गानां प्रत्येकं स्वाभिधेयेन त्र्यणुकाद्यर्थेन सहोपदर्शनं भङ्गोपदर्शनम्, तद्भावो 15 भङ्गोपदर्शनता। भङ्गसमुत्कीर्तने भङ्गकविषयं सूत्रमेव केवलमुच्चारणीयम्, भङ्गोपदर्शने तु
तदेव स्वविषयभूतेनार्थेन सहोच्चारयितव्यमिति विशेषः । तथा तेषामेवानुपूर्व्यादिद्रव्याणां स्वस्थान-परस्थानान्तर्भावचिन्तनप्रकार: समवतारः । तथा तेषामेवानुपूर्व्यादिद्रव्याणां सत्पदप्ररूपणतादिभिरनुयोगद्वारैरनुगमनं विचारणमनुगमः।
[सू० ९९] से किं तं णेगम-ववहाराणं अट्ठपयरूवणया ? णेगम20 ववहाराणं अट्ठपयरूवणया तिपएसिए आणुपुव्वी, चउपएसिए
आणुपुव्वी जाव दसपएसिए आणुपुव्वी, संखेज्जपदेसिए आणुपुव्वी, असंखेज्जपदेसिए आणुपुव्वी, अणंतपएसिएआणुपुव्वी। परमाणुपोग्गले अणाणुपुव्वी । दुपएसिए अवत्तव्वए। तिपएसिया आणुपुव्वीओ जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org