________________
अनुयोगद्वारसूत्रम् [ सू० ९८]
१३३
द्रव्यमिच्छति, एतच्च किलानेकताद्यभ्युपगमकलङ्केनाकलङ्कितत्वाच्छुद्धम्, ततः शुद्धद्रव्याभ्युपगमपरत्वादयमेव शुद्धः । अत्र च द्रव्यानुपूर्येव विचारयितुं प्रक्रान्ता, अतः शुद्धाशुद्धस्वरूपद्रव्यास्तिकमतेनैवासौ दर्शयिष्यते, न पर्यायास्तिकमतेन, पर्यायविचारस्याऽप्रक्रान्तत्वादित्यलं विस्तरेण।
[सू० ९८] से किं तं गम-ववहाराणं अणोवणिहिया 5 दव्वाणुपुव्वी?णेगम-ववहाराणंअणोवणिहिया दव्वाणुपुव्वी पंचविहा पण्णत्ता । तंजहा- अट्ठपयपरूवणया १, भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोयारे ४, अणुगमे ५।
[चू० ९८] एत्थ अविसुद्धदव्वट्ठियणेगम-ववहारमतेण अणोवणिधिया पंचविधा- अत्थपदपरूवणेत्यादि । अर्थ्यत इति अर्थः, अर्थयुक्तं पदं अर्थपदम्, 10 तस्स परूवणा कथनमित्यर्थः । तेसिं चेव अत्थपदाण विकप्पकरणं भंगो, तेसिं जहासंभवं उच्चारणा उक्कित्तणा भंगसमुक्कित्तणा । जो भंगो जेण अत्थपदेण जेहिं वा अत्थपदेहिं भवति तं तहा दंसेइ त्ति भंगोवदंसणा भण्णति । अणुपुब्विमादियाणं दव्वाणं सट्ठाणपरट्ठाणावतारगवेसणमग्गो जो सो समोतारो । अणुपुब्विमादियाण चेव दव्वाणं संतपदादिएहिं अणेगधा जं अत्थाणुसरणं तं अणुगमो त्ति भण्णति।
[हा० ९८] से किं तमित्यादि, अत्राप्यल्पवक्तव्यत्वात् सङ्ग्रहाभिधानं पश्चादिति। पञ्चविधा प्रज्ञप्ता, तद्यथा- अर्थपदप्ररूपणतेत्यादि, तत्र अर्यत इत्यर्थः, तद्युक्तं तद्विषयं तदर्थं वा पदम् अर्थपदम्, तस्य प्ररूपणा कथनम्, तद्भावोऽर्थपदप्ररूपणता, संज्ञासंज्ञिसम्बन्धप्ररूपणते त्यर्थः । तथा भङ्गसमुत्कीर्तनता, इहार्थपदानामेव समुदितविकल्पकरणं भङ्गः, भङ्गस्य भङ्गानां वा समुत्कीर्तनम् उच्चारणं भङ्गसमुत्कीर्तनम्, 20 तद्भाव इति समासः । तथा भङ्गोपदर्शनता, इह यो भङ्ग: येनार्थपदेन यैर्वाऽर्थपदैरुपजायते तस्य तथोपदर्शनम्, तद्भाव इति विग्रहः, सूत्रतोऽर्थतश्च प्ररूपणेत्यर्थः । तथा समवतारः, इहाऽऽनुपूर्वीद्रव्याणां स्वस्थान-परस्थानसमवतारान्वेषणाप्रकार: समवतार इति । तथा
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org