________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १३२
सा नयवक्तव्यताश्रयणाद् द्रव्यास्तिकनयमतेन द्विविधा प्रज्ञप्ता, तद्यथा- नैगमव्यवहारयोः सङ्ग्रहस्य च, अयमत्र भावार्थ:- इहौघतः सप्त नया भवन्ति नैगमादयः । उक्तं च- नैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूलैवम्भूता नया: [तत्त्वार्थ०
११३३] । एते च नयद्वयेऽवस्थाप्यन्ते- द्रव्यास्तिक: पर्यायास्तिकश्च, तत्राद्यास्त्रयो 5 द्रव्यास्तिकः, शेषा: पर्यायास्तिक इति। पुन: द्रव्यास्तिकोऽप्योघतो द्विभेदः - अविशुद्धो
विशुद्धश्च । अविशुद्धो नैगम-व्यवहारौ, विशुद्धः सङ्ग्रह इति । कथम् ? येन नैगम-व्यवहारौ कृष्णाद्यनेकगुणाधिष्ठितं त्रिकालविषयम् अनेकभेदस्थितं नित्यानित्यं द्रव्यमित्येवंवादिनौ, सङ्ग्रहस्तु परमाण्वादिसामान्यवादीत्यलं विस्तरेण ।
हे० ९६-९७] तत्थ णमित्यादि, तत्र याऽसावौपनिधिकी द्रव्यानुपूर्वी सा 10 स्थाप्यासांन्यासिकी, तिष्ठतु तावदल्पतरवक्तव्यत्वेन तस्या उपरि वक्ष्यमाणत्वादितिभावः।
अनौपनिधिकी तु पश्चान्निर्दिष्टाऽपि बहुतरवक्तव्यत्वेन प्रथमं व्याख्यायते, बहुतरवक्तव्ये हि वस्तुनि प्रथममुच्यमानेऽल्पतरवक्तव्यवस्तुगतः कश्चिदर्थस्तन्मध्येऽप्युक्त एव लभ्यत इति गुणाधिक्यं पर्यालोच्य सूत्रकारोऽनौपनिधिकीस्वरूपं विवरीषुराह - तत्थ णमित्यादि, तत्र
याऽसावनौपनिधिकी द्रव्यानुपूर्वी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन 15 द्विविधा प्रज्ञप्ता, तद्यथा - नैगम-व्यवहारयोः सङ्ग्रहस्य च, नैगम-व्यवहारसंमता
सङ्ग्रहसंमता चेत्यर्थः, अयमत्र भावार्थः - इहौघतः सप्त नया भवन्ति नैगमादयः, उक्तं चनैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूढैवंभूता नया: [ तत्त्वार्थ० १।३३।। एते च द्रव्यास्तिक-पर्यायास्तिकलक्षणे नयद्वयेऽन्तर्भाव्यन्ते, द्रव्यमेव परमार्थतोऽस्ति न
पर्याया इत्यभ्युपगमपरो द्रव्यास्तिकः, पर्याया एव वस्तुतः सन्ति न द्रव्यमित्यभ्युपगमपर: 20 पर्यायास्तिकः, तत्राऽऽद्यास्त्रयो द्रव्यास्तिकः, शेषास्तु पर्यायास्तिकः, पुनर्द्रव्यास्तिकोऽपि
सामान्यतो द्विविध:- अविशुद्धोविशुद्धश्च, तत्र नैगम-व्यवहाररूपोऽविशुद्धः, सङ्ग्रहरूपस्तु विशुद्धः, कथम् ? यतो नैगम-व्यवहारावनन्तपरमाण्वनन्तद्वयणुकाद्यनेकव्यक्त्यात्मकं कृष्णाद्यनेकगुणाधारं त्रिकालविषयं चाऽविशुद्ध द्रव्यमिच्छतः, सङ्ग्रहश्च परमाण्वादिकं परमाणुत्वादिसाम्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org