________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १२६
तथैकस्मिन्नगरे चतुःषष्टिविज्ञानसहिता गणिका, तया च पराभिप्रायपरिज्ञानार्थं रतिभवनभित्तिषु स्वस्वव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयश्चित्रकर्मणि लेखिताः, तत्र च यः कश्चिद्र राजपुत्रादिरागच्छति स तत्रैव कृताभ्यासतया स्वकीयस्वकीयव्यापारमेव
बाढं प्रशंसति, ततोऽसौ विलासिनी राजपुत्रादीनामन्यतरत्वेन तं विनिश्चित्य यथौचित्येनोप5 चरति, आनुकूल्येनोपचरिताश्च भुजङ्गा: प्रचुरमर्थजातं तस्यै प्रयच्छन्तीति।
तथैकस्मिन्नगरे कश्चिद्राजा अमात्येन सहाश्ववाहनिकायां निर्गतः, तत्र च पथि गच्छता राजतुरङ्गमेन क्वचित् खिलप्रदेशे प्रश्रवणमकारि, तच्च तत्प्रदेशपृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानोराजा तथैव व्यवस्थितमद्राक्षीत्, चिरावस्थायि
जलं शोभनमत्र प्रदेशे तडागं भवतीति चिन्तयँश्चिरमवलोकितवाँश्च, तदिङ्गिता10 कारपरिज्ञानकुशलतया चामात्येन राज्ञाऽभणितेनापि विदिततदभिप्रायेण खानितं तत्र प्रदेशे महासरः, तत्पाल्यां च रोपिता: सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहा:, अन्यदा च तेनैव प्रदेशेन गच्छता भूपेन दृष्टं पृष्टं चाहो ! मानससरोवद्रमणीयं केनेदं खानितं सर: ?, अमात्यो जगाद-देव! भवद्भिरेव, राजा सविस्मयं प्राह-कदा कश्च मयैतत्कारणाय
निरूपित इति, अत: सचिवो यथावृत्तं सर्वं कथितवान्, अहो ! परचित्तोपलक्षकत्व15 ममात्यस्येति विचिन्त्य परितुष्टो राजा तस्य वृत्तिं वर्धयामासेति । तदेवमित्यादिक: संसारफलोऽपरोऽप्यप्रशस्तभावोपक्रमः।
अथ प्रशस्तभावोपक्रममाह-पसत्थोगुरुमाईणं ति, तत्र श्रुतादिनिमित्तं गुर्वादीनां यद् भावोपक्रमणं स प्रशस्तभावोपक्रमः ।
आह-नन्वनुयोगद्वारविचारोऽत्र प्रक्रान्तः, अनुयोगश्च व्याख्यानम्, ततश्च यदेव 20 तदुपकारि किञ्चित् तदेव वक्तव्यं भवति, गुरुभावोपक्रमस्त्वप्रस्तुतः, व्याख्यानानुपकारित्वात्, तदेतदयुक्तम्, गुरुभावोपक्रमस्यैव मुख्यव्याख्यानत्वात्, उक्तं च
गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि। तस्माद्गुर्वाराधनपरेण हितकाक्षिणाभाव्यम्॥१॥[प्रशम०६९],अन्यच्चजुत्तं गुरुमयगहणं नाऊण तयं जहट्ठियं तत्तो। जह होइ सुप्पसन्नं तह जइयव्वं गुणत्थीहिं ॥१॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |