SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १२२ इदानीं कालोपक्रमः । तत्र कालो द्रव्यपर्याय एव, द्रव्य-पर्यायौ च मेचकमणिवत् संवलितरूपाविति द्रव्योपक्रमाभिधाने कालोपक्रम उक्त एव भवति, अथवा समयावलियमुहुत्तेत्यादिरूपस्य कालस्य स्वतन्त्रमेवोपक्रममभिधित्सुराह सूत्रकार:-से किं तमित्यादि। कालस्योपक्रमः कालोपक्रमः, स क इत्याह- जंणं नालिआईहिं कालो उवक्कमिजइ त्ति, णमिति वाक्यालङ्कारे, यदिह नाडिकादिभिरादिशब्दात् शङ्कुच्छायानक्षत्रचारादिपरिग्रहस्तैः काल उपक्रम्यते, स कालोपक्रम इति शेषः, तत्र नाडिका ताम्रादिमयघटिका, तया, शङ्कुच्छायादिना वा एतावान् पौरुष्यादिकालोऽतिक्रान्त इति यत् परिज्ञानं भवति स परिकर्मणि कालोपक्रमः, यथावत् परिज्ञानमेव हि तस्येह परिकर्म, यत्तु नक्षत्रादिचारैः कालस्य विनाशनं स वस्तुनाशे कालोपक्रमः, तथाहि-अनेन ग्रह10 नक्षत्रादिचारेण विनाशितः कालः, न भविष्यन्त्यधुना धान्यादिसम्पत्तय इति वक्तारो भवन्त्येवेति, उक्तं च पूज्यैः छायाएँ नालियाए व परिकम्मं से जहत्थविन्नाणं। रिक्खाइचारेहिं व तस्स विणासो विवज्जासो॥१॥[ विशेषावश्यकभा०९२७] इत्यादि। सेत्तमित्यादि निगमनम्। 15 [सू० ८७] से किं तंभावोवक्कमे? भावोवक्कमे दुविहे पण्णत्ते।तं जहा- आगमतो य १, नोआगगमतो य २। . [सू० ८८] [ से किं तं ] आगमओ भावोवक्कमे ? आगमओ भावोवक्कमे जाणए उवउत्ते। [सेतं आगमओ भावोवक्कमे]। [सू० ८९] [ से किं तं] नोआगमतो भावोवक्कम ? नोआगमतो 20 भावोवक्कमे दुविहे पण्णत्ते । तंजहा - पसत्थे य १, अपसत्थे य २।। [सू० ९०] [ से किं तं ] अपसत्थे भावोवक्कमे ? अपसत्थे भावोवक्कमे डोडिणि-गणिया-ऽमच्चाईणं । [ सेतं अपसत्थे भावोवक्कमे।] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy