________________
अनुयोगद्वारसूत्रम् [सू०७६-८४]
११९
बल-वर्णादिकरणं कर्ण-स्कन्धवर्धनादिक्रिया वा परिकर्मणि सचित्तद्रव्योपक्रमः । द्विविधमप्येतमुपक्रमं बिभणिषुराह - से किं तमित्यादि । अत्र निर्वचनम् - दुपयाणं नडाणमित्यादि, तत्र नाटकानां नाटयितारो नटास्तेषाम् । नट्टाणं ति नृत्यविधायिनो नर्तकास्तेषाम्, जल्लाणं ति जल्ला वरत्राखेलकास्तेषाम्, राजस्तोत्रपाठकानामित्यन्ये । मल्लाणं ति मल्ला: प्रतीतास्तेषाम् । मुट्ठियाणं ति मौष्टिका ये मुष्टिभिः प्रहरन्ति 5 मल्लविशेषा एव तेषाम् । वेलंबगाणं ति विडम्बका विदूषका नानावेषादिकारिण इत्यर्थः, तेषाम्, कहगाणं ति कथकानां प्रतीतानाम् । पवगाणं तिप्लवका ये उत्प्लवन्ते गर्तादिकं झम्पाभिर्लङ्घयन्ति नद्यादिकं वा तरन्ति तेषाम् । लासगाणं ति लासका ये रासकान् गायन्ति तेषाम्, जयशब्दप्रयोक्तृणां वा भण्डानामित्यर्थः । आइक्खगाणं ति ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषाम् । लंखाणं ति ये महावंशाग्रमारोहन्ति ते 10 लङ्खास्तेषाम् । मंखाणं ति ये चित्रपटादिहस्ता भिक्षां चरन्ति ते मङ्खास्तेषाम्। तूणइल्लाणं ति तूणाभिधानवाद्यविशेषवताम् । तुंबवीणियाणंति वीणावादकानाम् । काताणंति कावडिवाहकानाम् । मागहाणं ति मङ्गलपाठकानाम् । एषां सर्वेषामपि यद् घृताधुपयोगेन बल-वर्णादिकरणं कर्ण-स्कन्धवर्द्धनादिक्रिया वा स परिकर्मणि सचित्तद्रव्योपक्रमः, यस्तु खड्गादिभिरेषां नाश एवोपक्रम्यते संपाद्यते स वस्तुनाशे ‘सचित्तद्रव्योपक्रमः' इति 15 वाक्यशेषः। अन्ये तु शास्त्र-गन्धर्व-नृत्यादिकलासम्पादनमपि परिकर्मणि द्रव्योपक्रम इति व्याचक्षते, एतच्चायुक्तम्, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, अथवा यद्यात्मद्रव्यसंस्कारमात्रापेक्षया शरीरवर्णादिकरणवदित्थमुच्यते तर्खेतदप्यदुष्टमेवेति । सेतमित्यादि निगमनम्।
____ अथ चतुष्पदानां द्विविधमप्युपक्रमं बिभणिषुराह - से किं तमित्यादि । अत्र 20 निर्वचनम् - चउप्पयाणं आसाणं हत्थीणमित्यादि । अश्वादयः प्रतीता एव, एतेषां शिक्षागुणविशेषकरणं परिकर्मणि, खड्गादिभिस्त्वेषां नाशोपक्रमणं वस्तुनाशे, 'सचित्तद्रव्योपक्रमः' इतीहापि वाक्यशेषः । सेत्तमित्यादि निगमनम्।।
अथापदानां द्विविधमप्युपक्रमं बिभणिषुराह - से किं तमित्यादि । अत्र निर्वचनम्- अपयाणं अंबाणं अंबाडगाणमित्यादि। इहाऽऽम्रादयो देशप्रतीता एव, नवरं 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org