SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ११८ तु वस्तुन्यदर्शनाद् विशेषसिद्धिरिति, अथवैकत्र नाशस्यैव विवक्षितत्वाददोषः । से किं तं अचित्तदव्वोवक्कम इत्यादि [ यावद् ] निगमनं निगदसिद्धमेव। नवरं खण्डादीनां गुडादीनामित्यत्रानलसंयोगादिना माधुर्यगुणविशेषकरणं विनाशश्च । मिश्रद्रव्योपक्रमस्तु स्थासकादिविभूषिताश्वादिविषय एवेति, विवक्षातश्च कारकयोजना 5 द्रष्टव्या, द्रव्यस्य द्रव्येण द्रव्याद् द्रव्ये वोपक्रमो द्रव्योपक्रम इति। हे०७६-८४] तत्रोपक्रमो द्विधा - शास्त्रीय इतरश्च लोकप्रसिद्धः। तत्रेतराभिधित्सया प्राह - से किं तं उवक्कमे ? उवक्कमे छव्विहे पण्णत्ते इत्यादि। अत्र क्वचिदेवं दृश्यतेउवक्कमे दुविहे पण्णत्ते इत्यादि, अयं च पाठ आधुनिकोऽयुक्तश्च, ‘अहवा उवक्कमे छविहे पण्णत्ते' इत्यादिवक्ष्यमाणग्रन्थोपन्यासस्याघटमानताप्रसङ्गात् । यदिशास्त्रीयोप10 क्रमोऽत्र प्रतिज्ञात:स्यात्तदावेक्ष्यमाणसूत्रमेवं स्यात् - सेकिंतंसत्थोवक्कमे? सत्थोवक्कमे छव्विहे पण्णत्ते इत्यादि, न चैवम्, तस्मान्नेह सूत्रे द्वैविध्यप्रतिज्ञा, किन्त्वितरोपक्रमभणनं चेतसि विकल्प्य यथानिर्दिष्टमेव सूत्रमुक्तमित्यलं विस्तरेण। प्रकृतं प्रस्तुम: - तत्र नाम-स्थापनोपक्रमव्याख्या नाम-स्थापनावश्यकव्याख्यानुसारेण कर्तव्या । द्रव्योपक्रमव्याख्याऽपि द्रव्यावश्यकवदेव यावत् से किं तं 15 जाणगसरीरभवियसरीरवतिरित्ते दव्वोवक्कमे ? इत्यादि । तत्र द्रव्यस्य नटादेरुपक्रमणं कालान्तरभाविनापि पर्यायेण सहेदानीमेवोपायविशेषत: संयोजनं द्रव्योपक्रमः, अथवा द्रव्येण घृतादिना द्रव्ये भूम्यादौ द्रव्याद् घृतादेरेवोपक्रमो द्रव्योपक्रम इत्यादिकारकयोजना विवक्षया कर्तव्येति । स च त्रिविधः प्रज्ञप्त:, तद्यथा - सचित्तद्रव्यविषय: सचित्तः, अचित्तद्रव्यविषयोऽचित्तः, मिश्रद्रव्यविषयस्तु मिश्रः, द्रव्योपक्रम इति वर्तते । तत्र 20 सचित्तद्रव्योपक्रमस्त्रिविधः, तद्यथा - द्विपदानां नट-नर्तकादीनाम्, चतुष्पदानाम् अश्व-हस्त्यादीनाम्, अपदानाम् आम्रादीनाम्, तत्रैकैकः पुनरपि द्विधा - परिकर्मणि वस्तुविनाशे च । तत्रावस्थितस्यैव वस्तुनो गुणविशेषाधानं परिकर्म, तत्र परिकर्मणि परिकर्मविषयो द्रव्योपक्रमः, यदा तु वस्तुनो विनाश एवोपायविशेषैरुपक्रम्यते तदा वस्तुनाशे वस्तुनाशविषयो द्रव्योपक्रमः । तत्र द्विपदानां नट-नर्तकादीनां घृताधुपयोगेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy