________________
अनुयोगद्वारसूत्रम् [सू० ७६-८४]
११७
य। णाम-ट्ठवणा जधापुव्वं । दव्वे आगमतो णोआगमतो य। तत्थ णोआगमे जाणयभव्वसरीरातिरित्तो तिविधो सचित्ता-ऽचित्त-मीसो । सचित्ते दुपद-चतुप्पदाऽपदेसु, एक्केक्के परिकम्मणे वत्थुविणासे य।
[हा०७६-८४] तत्रोपक्रमो द्विप्रकार:- शास्त्रीय इतरश्च, तत्रेतराभिधित्सयाऽऽहसेकिंतमित्यादि वस्तुत:भावितार्थमेव, यावत् सेकिंतंजाणगसरीरभवियसरीरवइरित्ते 5 दव्वोवक्कमे इत्यादि । त्रिविधः प्रज्ञप्तः, तद्यथा- सचित्त इत्यादि, द्रव्योपक्रम इति वर्तते, शेषाक्षरार्थ: सचित्तद्रव्योपक्रमनिगमनावसान: सूत्रसिद्ध एव । भावार्थस्त्वयमिह - सचित्त इत्यादि, द्रव्योपक्रमः द्विपद-चतुष्पदा-ऽपदभेदभिन्नः । एकैको द्विविधःपरिकर्मणि वस्तुविनाशे च । तत्र परिकर्म द्रव्यस्य गुणविशेषपरिणामकरणम्, तस्मिन् सति, तद्यथा-घृताधुपयोगेन नटादीनां वर्णादिकरणम्, अथवा कर्ण-स्कन्धवर्द्धनादिक्रियेति।10 अन्ये शास्त्र-गान्धर्व-नृत्यादिकलासम्पादनमपि द्रव्योपक्रमं व्याचक्षते, इदं पुनरसाधु, विज्ञानविशेषात्मकत्वाच्छास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, किन्त्वात्मद्रव्यसंस्कारविवक्षापेक्षया शरीरवर्णादिकरणवत्स्यादपीति। एवं चतुष्पदानामपि हस्त्यश्वादीनां शिक्षागुणविशेषकरणम् । एवमपदानाम् अप्याम्रादीनां वृक्षविशेषाणां वृक्षायुर्वेदोपदेशाद् वार्द्धि(र्द्ध)क्यादिगुणापादनमिति, एतत्फलानां वा गर्त्तप्रक्षेप-कोद्रव-पलालादिस्थगना- 15 दिनेति । आह - यः स्वयं कालान्तरभाव्युपक्रम्यते यथा तरोर्वार्द्धि(र्द्ध)क्यादि तत्र परिकर्मणि द्रव्योपक्रमता युक्ता, वर्णकरण-कलादिसम्पादनस्य तु कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः कथं परिकर्मणि द्रव्योपक्रम: ? इति, अत्रोच्यतेविवक्षितहेतुजालमन्तरेणानुपपत्तेरित्यसिद्धम्, कथम् ? वर्णस्य तावन्नामकर्मविपाकित्वात् स्वयमपि भावात्, कलादीनां क्षायोपशमिकत्वात् तस्य च कालान्तरे स्वयमपि सम्भवात्, 20 विभ्रम-विलासादीनां च युवावस्थायां दर्शनात् । तथा वस्तुविनाशे च पुरुषादीनां खड्गादिभिर्विनाश एवोपक्रम्यत इति । आह- परिकर्म-वस्तुनाशोपक्रमयोरभेद एव, उभयत्र पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरिति, अत्रोच्यते - परिकर्मोपक्रमजनितोत्तररूपापत्तावपि विशेषेण प्राणिनांप्रत्यभिज्ञानदर्शनात्, वस्तुनाशोपक्रमसम्पादितोत्तरधर्मरूपे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org