SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ११४ तत्कीर्तनार्थमेवाऽऽह - तद्यथा - सामायिकं चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं कायोत्सर्गः प्रत्याख्यानम् । तत्र तेषु अनन्तरोद्दिष्टेषु षट्सु अध्ययनेषु मध्ये प्रथमम् आद्यमध्ययनं सामायिकम्, आधुपन्यासश्चास्य नि:शेषचरणादिगुणाधारत्वेन प्रधानमुक्तिकारणत्वात्, उक्तं च - सामायिकं गुणानामाधार: खमिव सर्वभावानाम् । न हि सामयिकहीनाश्चरणादिगुणान्विता येन ॥१॥ तस्माज्जगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीर-मानसानेकदुःखनाशस्य मोक्षस्य ।।२।।[ तत्र बोधादेरधिकमयनं प्रापणमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थम् । सामायिक10 मित्यत्र यः सर्वभूतान्यात्मवत् पश्यति स रागद्वेषवियुक्तः समः, तस्याऽऽयः प्रतिक्षणं ज्ञानादिगुणोत्कर्षप्राप्ति: समायः, समो हि प्रतिक्षणमपूर्वैः ज्ञान-दर्शन-चरणपर्यायवाटवीभ्रमणहेतुसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभिः संयुज्यते।समायःप्रयोजनमस्याध्ययनस्य ज्ञान-क्रियासमुदायरूपस्येति सामायिकम्, समाय एव वा सामायिकम्, तस्य सामायिकस्य, णमिति वाक्यालङ्कारे, इमे त्ति अमूनि वक्ष्यमाणलक्षणानि 15 चत्वार्यनुयोगद्वाराणि भवन्ति । तत्राध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव द्वाराणि महापुरस्येव सामायिकस्य, अनुयोगार्थं व्याख्यार्थं द्वाराण्यनुयोगद्वाराणि। ____ अत्र नगरदृष्टान्तं वर्णयन्त्याचार्याः - यथा हि अकृतद्वारं नगरमनगरमेव भवति, निर्गम-प्रवेशोपायाभावतोऽनधिगमनीयत्वात् । कृतैक-द्विकादिद्वारमपि दुरधिगमं कार्यातिपत्तये च भवति । चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च 20 संपद्यते । एवं सामायिकपुरमप्याधिगमोपायद्वारशून्यमशक्याधिगमं स्यात्, एकादि द्वारानुगतमपि दुरधिगमं भवेत्, सप्रभेदचतुरानुगतं तु सुखाधिगमं भवति, अत: फलवाँस्तदधिगमार्थो द्वारोपन्यासः। कानि पुनस्तानीति तद्दर्शनार्थमाह - तद्यथेत्यादि। तत्रोपक्रमणंदूरस्थस्य वस्तुनस्तैः तैः प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यता-करणमुपक्रमः, उपक्रान्तं हि 25 उपक्रमान्तर्गतभेदैर्विचारितं हि निक्षिप्यते, नान्यथेति भावः । उपक्रम्यते वा निक्षेपयोग्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy