SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ७४-७५ ] सामायिकपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगमम्, सप्रभेदचतुर्द्वारानुगतं तु सुखाधिगममित्यतः फलवान् द्वारोपन्यास इति । 5 तत्रोपक्रमणमुपक्रम इति भावसाधनः शास्त्र [स्य ] न्यासदेशसमीपीकरणलक्षणः । उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः । उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रवणभावे सत्युपक्रम इत्यधिकरणसाधनः । उपक्रम्यतेऽस्मादिति वा विनीतविनेयविनयादित्युपक्रम इत्यपादानसाधनः, तथा च शिष्यो गुरुं विनयेनाऽऽराध्यानुयोगं कारयन्नात्मनाऽपादानार्थे वर्तते इति । एवं निक्षेपणं निक्षेपः, निक्षिप्यते वा अनेनास्मिन्नस्मादिति वा निक्षेपः न्यासः स्थापनेति पर्यायाः । एवमनुगमनमनुगमः, अनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः, सूत्रस्यानुकूलः परिच्छेद इत्यर्थः । एवं नयनं नयः, नीयतेऽनेनाऽस्मिन्नस्मादिति वा नयः, अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद 10 इत्यर्थः । आह - एषामुपक्रमादिद्वाराणां किमित्येवं क्रम: ? इति, अत्रोच्यते - न ह्यनुपक्रान्तं सदसमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यत इत्यतोऽयमेव क्रम इति । उक्तं च सम्बन्ध(द्ध)मुपक्रमतः समीपमानीय रचितनिक्षेपम्। अनुगम्यतेऽथ शास्त्रं नयैरनेकप्रभेदैस्तु || १ || [ ] [हे० ७४-७५] इदानीमावश्यकस्य यद् व्याख्यातं यच्च व्याख्येयं तदुपदर्शयन्नाह - आवस्सयस्स गाहा । व्याख्या - आवश्यकस्य आवश्यकपदाभिधेयस्य शास्त्रस्य एषः पूर्वोक्तप्रकार: पिण्डार्थः समुदायार्थो वर्णितः कथितः समासेन संक्षेपेण । इदमत्र हृदयम् - आवश्यकश्रुतस्कन्ध इति शास्त्रनाम पूर्वं व्याख्यातम्, तच्च सान्वर्थम्, ततश्च यथा सान्वर्थादाचारादिनामत एव तद्वाच्यशास्त्रस्य चारित्राद्याचारोऽत्राभिधास्यत इत्यादि- 20 लक्षणः समुदायार्थः प्रतिपादितो भवति, एवमत्राप्यावश्यकश्रुतस्कन्ध इति सान्वर्थनामकथनादेवावश्यं करणीयं सावद्ययोगविरत्यादिकं वस्त्वत्राभिधास्यत इति समुदायार्थः प्रतिपादितो भवति । इत ऊर्ध्वं पुनरेकैकमध्ययनं कीर्तयिष्यामि भणिष्यामीति गाथार्थः । Jain Education International ११३ For Private & Personal Use Only 15 www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy