________________
आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् ११२
[ हा० ७४-७५ ] साम्प्रतं यदुक्तमादौ श्रुतस्कन्धोऽध्ययनानि चावश्यकमिति तत्राऽऽवश्यकादिन्यासोऽभिहितः, इदानीमध्ययनन्यासावसरः, स चानुयोगद्वारप्रक्रमायातः प्रत्यध्ययनमोघनिष्पन्न एव वक्ष्यते लाघवार्थमिति । साम्प्रतमावश्यकस्य यद् व्याख्यातं यच्चव्याख्येयं तदुपदर्शयन्नाह - आवस्सयस्स गाहा । व्याख्या - पिण्डार्थ: समुदायार्थः 5 वर्णित: कथित: समासेन संक्षेपेण आवश्यकश्रुतस्कन्ध इति शास्त्रस्यान्वर्थाभिधानात् । इत ऊर्ध्वमेकैकमध्ययनं कीर्त्तयिष्यामः वक्ष्याम इति गाथार्थः ।
10
कीर्त्तनां कुर्वन्निदमाह - तंजहा - सामाइयमित्यादि सूत्रसिद्धं यावत् तत्थ पढममज्झयणं सामाइयं । तत्रशब्दो वाक्योपन्यासार्थो निर्द्धारणार्थो वा, प्रथमम् आद्यम् अशेषचरणादिगुणाधारत्वात् प्रधानं मुक्तिहेतुत्वात् । उक्तं च
सामायिकं गुणानामाधारः खमिव सर्वभावानाम् । न हि सामायिकहीनाश्चरणादिगुणान्विता येन ॥१॥ तस्माज्जगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीर-मानसानेकदुः दुःखनाशस्य मोक्षस्य ॥२॥ [
]
बोधादेरधिकमयनमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थं सामायिकम् । इह च 15 समो राग-द्वेषवियुतो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्य आय: समायः, समो हि प्रतिक्षणमपूर्वैर्ज्ञान-दर्शन-चरणपर्यायैर्भवाटवीभ्रमणसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभिरधः कृतचिन्तामणिकल्पद्रुमोपमैर्युज्यते, स एव समाय: प्रयोजनमस्याध्ययनसंवेदनानुष्ठानवृन्दस्येति सामायिकम्, समाय एव [वा ] ।
तस्य सामायिकस्य, णमिति वाक्यालङ्कारे, इमे त्ति अमूनि वक्ष्यमाणलक्षणानि 20 महापुरस्येव चत्वारीति संख्या, न त्रीणि नापि पञ्च, अनुयोगद्वाराणि, इहाध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव द्वाराणि नगरप्रवेशमुखानि, सामायिकपुरस्यार्थाधिगमोपायद्वाराणीत्यर्थः, भवन्ति। तद्यथेत्युपन्यासार्थः । उवक्कमेत्यादि, इह चनग्रदृष्टान्तमाचार्याः प्रतिपादयन्ति – यथा ह्यकृतद्वारमनगरमेव भवति, कृतैकद्वारमपि दुरधिर्गमं कार्यातिपत्तये च, चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगमं कार्यानतिपत्तये च । एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org