SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू०७६-८४] ११५ 5 क्रियतेऽनेन गुरुवाग्योगेनेत्युपक्रमः, अथवा उपक्रम्यते अस्मिन् शिष्यश्रवणभावे सतीत्युपक्रम:, अथवा उपक्रम्यते अस्माद्विनीतविनेयविनयादित्युपक्रमः, विनयेनाराधितो हि गुरुर्निक्षेपयोग्यं शास्त्रं करोतीति भावः । तदेवं करणा-ऽधिकरणा-ऽपादानकारकैर्गुरुवाग्योगादयोऽर्था भेदेनोक्ता: । यदि त्वेकोऽप्यन्यतरोऽर्थः करणादिकारकवाच्यत्वेन विवक्ष्यते तथापि न दोषः। एवं निक्षेपणं शास्त्रादेर्नाम-स्थापनादिभेदैर्व्यसनं व्यवस्थापनं निक्षेपः, निक्षिप्यते नामादिभेदैर्व्यवस्थाप्यते अनेनास्मिन्नस्मादिति वा निक्षेपः, वाच्यार्थविवक्षा तथैव । एवमनुगमनं सूत्रस्यानुकूलमर्थकथनमनुगमः, अथवा अनुगम्यते व्याख्यायते सूत्रमनेनास्मिन्नस्मादिति वाऽनुगमः, वाच्यार्थविवक्षा तथैव। एवं नयनं नयः, नीयते परिच्छिद्यते अनेनास्मिन्न- स्मादिति वा नयः, 10 सर्वत्रानन्तधर्माध्यासिते वस्तुन्येकांशग्राहको बोध इत्यर्थः। अत्र चोपक्रान्तमेव निक्षेपयोग्यतामानीतमेव निक्षिप्यत इत्युपक्रमानन्तरं निक्षेप उपन्यस्त:, नामादिभेदैनिक्षिप्तमेव चानुगम्यत इति निक्षेपानन्तरमनुगमः, अनुगम्यमानमेव च नयैर्विचार्यते नान्यथेति तदनन्तरं नय इति यथोक्तक्रमेणोपन्यास: फलवानिति । [सू०७६]से किं तं उवक्कमे ? उवक्कमे छव्विहे पण्णत्ते। तंजहा- 15 नामोवक्कमे १, ठवणोवक्कमे २, दव्वोवक्कमे ३, खेत्तोवक्कमे ४, कालोवक्कमे ५, भावोवक्कमे ६। [सू० ७७] नाम-ठवणाओ गयाओ। [सू० ७८] से किं तं दव्वोवक्कमे ? दव्वोवक्कमे दुविहे पण्णत्ते। तंजहा- आगमओ य १, नोआगमओ य २, जाव जाणग- 20 सरीरभवियसरीरवतिरित्ते दव्वोवक्कमे तिविहे पण्णत्ते । तंजहा सचित्ते १, अचित्ते २, मीसए ३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy