________________
अनुयोगद्वारसूत्रम् [सू०७३]
१०९
गुणधारणा प्रत्याख्यानस्यार्थाधिकार इति, अयमत्र भावार्थः – यथेह मूलगुणोत्तरगुणप्रतिपत्ति: निरतिचारसन्धारणंच तथाप्ररूपणमर्थाधिकार इति। चशब्दादन्ये चापान्तरालार्थाधिकारा विज्ञेया इति । एवकारोऽवधारण इति गाथार्थः । एषां च प्रत्यध्ययनमर्थाधिकारद्वार एवावकाश: प्रत्येतव्यः।
हे०७३] आह - नन्वावश्यके किमितिषडध्ययनानि? अत्रोच्यते, षडाधिकार- 5 योगात्।के पुनस्ते इत्याशङ्कय तदुपदर्शनार्थमाह -आवस्सगस्सणमित्यादि।आवश्यकस्य एते वक्ष्यमाणा अर्थाधिकारा भवन्ति, तद्यथा - सावजजोग गाहा। व्याख्या - प्रथमे सामायिकलक्षणे अध्ययने प्राणातिपातादिसर्वसावद्ययोगविरतिराधिकारः १ । उक्त्तिण त्ति द्वितीये चतुर्विंशतिस्तवाध्ययने प्रधानकर्मक्षयकारणात्वाल्लब्धबोधिविशुद्धिहेतुत्वात् पुनर्बोधिलाभफलत्वात् सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाच्च तीर्थकराणां 10 गुणोत्कीर्तनाऽर्थाधिकारः । गुणवओ य पडिवत्ति त्ति, गुणा मूलोत्तरगुणरूपा व्रतपिण्डविशुद्धयादयो विद्यन्ते यस्य स गुणवाँस्तस्य प्रतिपत्ति: वन्दनादिका कर्तव्येति तृतीये वन्दनाध्ययनेऽर्थाधिकारः । चशब्दात् पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्ति: कर्तव्येति द्रष्टव्यम् । उक्तं च -
परियाय परिस पुरिसंखेत्तं कालंचआगमं नाउं।
कारणजाए जाए जहारिहं जस्स जंजोगं॥१॥ [आवश्यकनि० ११२८] ति ३। खलियस्स निंदण त्ति स्खलितस्य मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तोर्विशुद्धयमानाध्यवसायस्याऽकार्यमिदमिति भावयतो निन्दा प्रतिक्रमणेऽर्थाधिकार: ४ । वणतिगिच्छ त्ति व्रणचिकित्सा कायोत्सर्गाध्ययनेऽर्थाधिकारः । इदमुक्तं भवति - चारित्रपुरुषस्य योऽयमतिचाररूपोभावव्रणस्तस्य दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने 20 चिकित्सा प्रतिपाद्यते ५ । गुणधारणा चेव त्ति गुणधारणा प्रत्याख्यानाध्ययने अर्थाधिकारः । अयमत्रभावार्थ: - मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारंसन्धारणं यथाभवति तथा प्रत्याख्यानाध्ययने प्ररूपणा करिष्यते ६ । चशब्दादन्येऽप्यपान्तरालार्थाधिकारा विज्ञेया:, एवकारोऽवधारण इति गाथार्थः।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org