________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १०४
5
सचित्तस्कन्धविचारे जीव-तदधिष्ठितशरीरावयवसमुदाय: सचित्तस्कन्धः, अत्र तु शरीरात् बुद्धया पृथक्कृत्य जीव एव केवल: कृत्स्नस्कन्ध इति व्यत्ययं व्याचक्षते। अत्रच व्याख्याने प्रेर्यमेव नास्ति, हय-गजादिजीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वत्राविरोधादित्यलं प्रसङ्गेन। सेत्तमित्यादि निगमनम्।
अथाकृत्स्नस्कन्धनिरूपणार्थमाह-से किं तमित्यादि। अत्रोत्तरम्-अकसिणखंधे से चेवेत्यादि, न कृत्स्नोऽकृत्स्नः, स चासौ स्कन्धश्चाकृत्स्नस्कन्धः, यस्मादन्योऽपि बृहत्तर: स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृत्स्नस्कन्ध इत्यर्थः। कश्चायमित्याह-सेचेवेत्यादि, स एव दुपदेसिएखंधे तिपदेसिए खंधे इत्यादिना पूर्वमुपन्यस्तो द्विप्रदेशिकादिरकृत्स्नस्कन्ध इत्यर्थः द्विप्रदेशिकस्य त्रिप्रदेशिकापेक्षयाऽकृत्स्नत्वात् त्रिप्रदेशिकस्यापि 10 चतुष्प्रदेशिकापेक्षयाऽकृत्स्नत्वाद् एवं तावद्वाच्यं यावत् कात्स्य॑ नापद्यत इति । पूर्व
द्विप्रदेशिकादिः सर्वोत्कृष्टप्रदेशश्च स्कन्धः सामान्येनाचित्ततया प्रोक्तः, इह तु सर्वोत्कृष्टस्कन्धादधोवर्तिन एवोत्तरोत्तरापेक्षया पूर्वपूर्वतरा अकृत्स्नस्कन्धत्वेनोक्ता इति विशेषः । सेत्तमित्यादि निगमनम्।
____अथानेकद्रव्यस्कन्धनिरूपणार्थमाह - से किं तमित्यादि । अत्रोत्तरम् - 15 अणेगदवियखंधे तस्सेवेत्यादि, अनेकद्रव्यश्चासौ स्कन्धश्चेति समासः, तस्सेवेत्यत्रानु
वर्तमानं स्कन्धमात्रं संबध्यते, ततश्च तस्यैव यस्य कस्यचित् स्कन्धस्य यो देशो नख-दन्तकेशादिलक्षण: अपचितो जीवप्रदेशैर्विरहितो यश्च तस्यैव देशः पृष्ठोदर-चरणादिलक्षण उपचितो जीवप्रदेशैर्व्याप्त इत्यर्थः तयोर्यथोक्तदेशयोर्विशिष्टैकपरिणामपरिणतयोर्यो
देहाख्य: समुदाय: सोऽनेकद्रव्यस्कन्ध इति विशेषः, सचेतनाचेतनानेकद्रव्यात्मकत्वादिति 20 भावः। स चैवंभूतः सामर्थ्यात्तुरगादिस्कन्ध एवप्रतीयते। यद्येवं कृत्स्नस्कन्धादस्य को विशेष
इति चेत्, उच्यते-स किल यावानेव जीवप्रदेशानुगतस्तावानेव विवक्षितो न तु जीवप्रदेशाव्याप्तनखाद्यपेक्षयाऽपि, अयं तुनखाद्यपेक्षयाऽपीति विशेषः । पूर्वोक्तमिश्रस्कन्धादस्य तर्हि को विशेष इति चेत्, उच्यते-तत्र खड्गाद्यजीवानां हस्त्यादिजीवानां च पृथग्व्यवस्थितानां
समूहकल्पनया मिश्रस्कन्धत्वमुक्तम्, अत्र तु जीवप्रयोगतो विशिष्टैकपरिणामपरिणतानां 25 सचेतनाचेतनद्रव्याणामनेकद्रव्यस्कन्धत्वमिति विशेष इत्यलं प्रसङ्गेन । सेत्तमित्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org