________________
अनुयोगद्वारसूत्रम् [सू० ६५-६८]
१०३
तस्यैव देश उपचितो जीवप्रदेशभावादिति हृदयम्, एतदुक्तं भवति - जीवप्रयोगपरिणा(ण?)मितानिजीवप्रदेशापचितानिच नख-रोम-रदन-केशादीन्यनेकानि द्रव्याणि तथाऽन्यानि जीवप्रयोगपरिणा(ण?)मितानि जीवप्रदेशोपचितानि च चरणजङ्घोरुप्रभृतीनि प्रभूतान्येव, एतेषामपचितोपचितानामनेकद्रव्याणां पुनर्यो विशिष्टैकपरिणामो देहाख्य: सोऽनेकद्रव्य इति। अत्राह- ननु कृत्स्न द्रव्यस्कन्धादस्य को विशेषः? 5 इति, उच्यते - स किल यावानेव जीवप्रदेशानुगतस्तावानेव विशिष्टैकपरिणामपरिणतः परिगृह्यते, न नखाद्यपेक्षयाऽपि, अयं तु नखाद्यपेक्षयाऽपीत्ययं विशेष इत्यलं प्रसङ्गेन । सेत्तमित्यादि निगमनम्।
[हे०६५-६८] अथ तमेव प्रकारान्तरेण प्ररूपयितुमाह- अहवा जाणगेत्यादि। अथवा अन्येन प्रकारेण ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः, 10 तद्यथा-कृत्स्नस्कन्धः अकृत्स्नस्कन्धोऽनेकद्रव्यस्कन्धः।।
तत्राऽऽद्यभेदनिरूपणार्थमाह- से किं तमित्यादि, अत्रोत्तरम्- कसिणक्खंधेत्यादि, यस्मादन्यो बृहत्तर: स्कन्धो नास्ति स कृत्स्न: परिपूर्णः स्कन्धः कृत्स्नस्कन्धः, कोऽयमित्याह- से चेवेत्यादि, स एव हयखंधेत्यादिनोपन्यस्तो हयादिस्कन्धः कृत्स्नस्कन्धः । आह- यद्येवं प्रकारान्तरत्वमसिद्धम्, सचित्तस्कन्धस्यैव संज्ञान्तरेणोक्तत्वात्, 15 नैतदेवम्, प्राक् सचित्तद्रव्यस्कन्धाधिकारात् तथाऽसम्भविनोऽपि बुद्धचा निष्कृष्य जीवा एवोक्ता:, इह तु जीव-तदधिष्ठितशरीरावयवलक्षण: समुदाय: कृत्स्नस्कन्धत्वेन विवक्षित इत्यतोऽभिधेयभेदात् सिद्धं प्रकारान्तरत्वम्। यद्येवंतर्हि हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षयागजादिस्कन्धस्य बृहत्तरत्वात्, नैतदेवम्, यतोऽसंख्येयप्रदेशात्मकोजीव: तदधिष्ठिताश्च शरीरावयवा इत्येवंलक्षण: समुदायो हयादिस्कन्धत्वेन विवक्षितो जीवस्य 20 चासङ्ख्येयप्रदेशात्मकतया सर्वत्र तुल्यत्वाद् गजादिस्कन्धस्य बृहत्तरत्वमसिद्धम्, यदि हि जीवप्रदेश-पुद्गलसमुदाय: सामस्त्येन वर्द्धत तदा स्याद् गजादिस्कन्धस्य बृहत्त्वम्, तच्च नास्ति, समुदायवृद्ध्यभावात्, तस्मादितरेतरापेक्षया जीवप्रदेश-पुद्गलसमुदायस्य हीनाधिक्याभावात् सर्वेऽपि हयादिस्कन्धा: परिपूर्णत्वात् कृत्स्नस्कन्धाः । अन्ये तु पूर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org