________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १००
सारेणैवभावनीयम्, प्रायस्तुल्यवक्तव्यत्वादिति।
से किं तं जाणगसरीरभवियसरीरवइरित्ते दव्वखंधे इति प्रश्ने निर्वचनमाहजाणगसरीर-भवियसरीरवइरित्ते दव्वखंधे तिविहे इत्यादि, ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः, तद्यथा-सचित्तोऽचित्तो मिश्रः।
तत्राऽऽद्यभेदं जिज्ञासुः पृच्छति-से किं तमित्यादि, अत्रोत्तरम्- सचित्तदव्वखंधे अणेगविहे पण्णत्ते इत्यादि, चित्तं मनो विज्ञानमिति पर्यायाः, सह चित्तेन वर्तत इति सचित्तः, स चासौ द्रव्यस्कन्धश्चेति सचित्तद्रव्यस्कन्धः, अनेकविधो व्यक्तिभेदतोऽनेकप्रकार: प्रज्ञप्तः । तद्यथा- हयस्कन्ध इत्यादि, हय: तुरगः, स एव विशिष्टैकपरिणामपरिणतत्वात्
स्कन्धो हयस्कन्धः, एवं गजस्कन्धादिसमासः, नवरं किन्नर-किम्पुरुष-महोरगा 10 व्यन्तरविशेषाः, उसभत्ति वृषभः, क्वचिद् गन्धर्वस्कन्धादीन्यधिकान्यप्युदाहरणानि दृश्यन्ते, सुगमानि च, नवरं पसु-पसय-विहग-वानरखंधे त्ति क्वचिद् दृश्यते, तत्र पशुः छगलकः, पसयस्तु आटविको द्विखुर: चतुष्पदविशेष:, विहग: पक्षी, वानरः प्रतीतः, स्कन्धशब्दस्तु प्रत्येकं द्रष्टव्यः । इह च सचित्तस्कन्धाधिकाराज्जीवानामेव च परमार्थतः
सचेतनत्वात् कथञ्चिच्छरीरैः सहाभेदेसत्यपिहयादीनां सम्बन्धिनो जीवा एव विवक्षिता:, 15 नतु तदधिष्ठितशरीराणीति सम्प्रदाय:। न चजीवानांस्कन्धत्वं नोपपद्यते, प्रत्येकमसङ्ख्येय
प्रदेशात्मकत्वेन तेषां स्कन्धत्वस्य सुप्रतीतत्वादिति। हयस्कन्धादीनामन्यतरेणैकेनाप्युदाहरणेन सिद्धम्, किं प्रभूतोदाहरणाभिधानेनेति चेत्, सत्यम्, किन्तु पृथग्विभिन्नस्वरूपविजातीयस्कन्धबहुत्वाभिधानेनाऽऽत्माद्यद्वैतवादं निरस्यति, तथाऽभ्युपगमे मुक्तेतरादि
व्यवहारोच्छेदप्रसङ्गात्। सेतमित्यादि निगमनम्। 20 अथाचित्तद्रव्यस्कन्धनिरूपणार्थमाह- से किं तमित्यादि । अत्र निर्वचनम् -
अचित्तदव्वखंधे इत्यादि, अविद्यमानचित्तोऽचित्तः, स चासौ द्रव्यस्कन्धश्चेति समास:, अयमनेकविधः प्रज्ञप्तः, तद्यथा-द्विप्रदेशिकस्कन्धः इत्यादि, तत्र प्रकृष्टः पुद्गलास्तिकायदेशः प्रदेश:, परमाणुरित्यर्थः, द्वौ प्रदेशौ यत्र स द्विप्रदेशिकः, स चासौ स्कन्धश्च
द्विप्रदेशिकस्कन्धः, एवमन्यत्रापि यथायोगं समासः। सेत्तमित्यादि निगमनम। 25 अथ मिश्रद्रव्यस्कन्धनिरूपणायाऽऽह-सेकिंतमित्यादि।अत्रोत्तरम्-मीसदव्वखंधे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org