________________
अनुयोगद्वारसूत्रम् [सू० ४६-५१]
इति, अत्रोच्यते- नोशब्दस्य देशप्रतिषेधवचनत्वात् चरणगुणसमन्वितश्रुतस्य विवक्षितत्वात् चरणस्य चानागमत्वादिति।
जंइमं अरहंतेहीत्यादि, नन्दीविशेषविवरणानुसारतोऽन्यथा वोपन्यस्तविशेषणकलापयुक्तमपि स्वबुद्धया नेयमिति। शेषं प्रकटार्थं यावन्निगमनमिति।
तस्सणं इमेइत्यादिपूर्ववत्। सुतसुत्तगाहा।व्याख्या- श्रूयत इति श्रुतम्।सूचनात् 5 सूत्रम् । विप्रकीर्णार्थग्रन्थनाद् ग्रन्थः । सिद्धमर्थमन्तं नयतीति सिद्धान्तः । मिथ्यादर्शनाऽविरति-प्रमाद-कषाय-योगप्रवृत्तजीवशासनात् शासनम्। पाठान्तरं वा प्रवचनम्, तत्रापि प्रगतं प्रशस्तं प्रधानमादौ वा वचनं प्रवचनम् । मोक्षायाऽऽज्ञाप्यन्ते प्राणिनोऽनयेत्याज्ञा। उक्तिर्वचनं वाग्योग इत्यर्थः । हितोपदेशरूपत्वादुपदेशनमुपदेशः । यथावस्थितजीवादिपदार्थप्रज्ञापनात्प्रज्ञापनेति।आचार्यपारम्पर्येणाऽऽगच्छतीत्यागमः,आप्तवचनंवाआगम 10 इति, एकार्थाः पर्यायाः सूत्र इति गाथार्थः । सेत्तमित्यादि निगमनम् ।
[हे० ४६-५१] अथ भावश्रुतनिरूपणार्थमाह- से किं तमित्यादि। अत्रोत्तरम् - भावसुअंदुविहमित्यादि। विवक्षितपरिणामस्य भवनं भावः, स चासौ श्रुतं चेति भावश्रुतं भावप्रधानं वा श्रुतं भावश्रुतम्, तद् द्विविधं प्रज्ञप्तम्- आगमतो नोआगमतश्च।
तत्राऽऽद्यभेदनिरूपणार्थमाह- से किं तमित्यादि । अत्रोत्तरम्- श्रुतपदार्थज्ञस्तत्र 15 चोपयुक्त आगमत: आगममाश्रित्य भावश्रुतं श्रुतोपयोगपरिणामस्य सद्भावात् तस्य चाऽऽगमत्वादिति भावः । सेतमित्यादि निगमनम्।
अथ द्वितीयभेद उच्यते-सेकिंतंनोआगमओइत्यादि।अत्रोत्तरम् - नोआगमओ भावसुतं दुविहमित्यादि।
__ अत्राऽऽद्यभेदनिरूपणार्थमाह-सेकिंतमित्यादि। अत्र निर्वचनम् - लोइयंभावसुतं 20 जं इममित्यादि। लोकैः प्रणीतं लौकिकम्, किं पुनस्तदित्याह-यदिदमज्ञानिकर्मिथ्यादृष्टिभिःस्वच्छन्दबुद्धिमतिविकल्पितंतल्लौकिकंभावश्रुतमिति सम्बन्धः। तत्राल्पज्ञानभावतोऽधनवदशीलवद् वा सम्यग्दृष्टयोऽप्यज्ञानिका: प्रोच्यन्तेऽत आह-मिथ्यादृष्टिभिः स्वच्छन्दबुद्धिमतिविकल्पितम्, इहाऽवग्रहेहे बुद्धिः, अपाय-धारणे तु मतिः, स्वच्छन्देन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org