SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० ४०-४५ ] अत्राऽऽद्यभेदज्ञापनार्थमाह- से किं तमित्यादि । अत्रोत्तरम् - अंडयं हंसगब्भादि त्ति, अण्डाज्जातमण्डजम्, हंसः पतङ्गश्चतुरिन्द्रियजीवविशेषः, गर्भस्तु तन्निर्वर्तितकोसिकारः, हंसस्यगर्भो हंसगर्भः, तदुत्पन्नं सूत्रमण्डजमुच्यते, आदिशब्दः स्वभेदप्रख्यापनपरः । ननु यदि हंसगर्भोत्पन्नं सूत्रमण्डजमुच्यते तर्हि सूत्रे अण्डजं हंसगर्भादीति सामानाधिकरण्यं विरुध्यते, हंसगर्भस्य प्रस्तुतसूत्रकारणत्वादेव, सत्यम्, कारणे कार्योपचारात् तदविरोधः, कोशिकारभवं 5 सूत्रं वटकसूत्रमिति लोके प्रतीतमण्डजमुच्यत इति हृदयम्, पञ्चेन्द्रियहंसगर्भसम्भवमित्यन्ये। सेतमित्यादि निगमनम्। अथ द्वितीयभेद उच्यते- से किं तमित्यादि, अत्र निर्वचनम् - बोंडयं फलिमादि त्ति, बोंडं वमनीफलम्, तस्माज्जातं बोण्डजम्, फलिही वमनी, तस्याः फलमपि फलिहं कर्पासाश्रयकोशकरूपम्, तदिहापि कारणे कार्योपचाराद् बोण्डजं सूत्रमुच्यते इति भाव: । 10 सेत्तमित्यादि निगमनम् । अथ तृतीयभेद उच्यते - से किं तमित्यादि । अत्रोत्तरम् - कीडयं पंचविहमित्यादि। कीटाज्जातं कीटजं सूत्रं तत् पञ्चविधं प्रज्ञप्तम्, तद्यथा- पट्टे त्ति पट्टसूत्रम्, मलयम्, अंशुकम्, चीनांशुकम्, कृमिरागम् । अत्र वृद्धव्याख्या- किल यत्र विषये पट्टसूत्रमुत्पद्यते तत्रारण्ये वननिकुञ्जस्थाने मांसचीडादिरूपस्याऽऽमिषस्य पुञ्जाः क्रियन्ते, तेषां च पुञ्जानां पार्श्वतो निम्ना उन्नताश्च सान्तरा बहवः कीलका भूमौ निखायन्ते, तत्र वनान्तरेषु संचरन्तः 15 पतङ्गकीटाः समागत्य मांसाद्यामिषोपभोगलुब्धाः कीलकान्तरेष्वितस्ततः परिभ्रमन्तो लालाः प्रमुञ्चन्ति, ताश्च कीलकेषु लग्नाः परिगृह्यन्ते, इत्येतत् पट्टसूत्रमभिधीयते । अनेनैव क्रमेण मलयविषयोत्पन्नं तदेव मलयम् । इत्थमेव चीनविषयबहिस्तादुत्पन्नं तदेवांशुकम् । इत्थमेव चीनविषयोत्पन्नं तदेव चीनांशुकमभिधीयते । क्षेत्रविशेषाद्धि कीटविशेषस्तद्विशेषात्तु पट्टसूत्रादिव्यपदेशविशेष इति भावः । एवं क्वचिद्विषये मनुष्यादिशोणितं गृहीत्वा केनापि योगेन 20 युक्तं भाजनसम्पुटे स्थाप्यते, तत्र च प्रभूताः कृमयः समुत्पद्यन्ते, ते च वाताभिलाषिणो भाजनच्छिद्रैर्निर्गत्य तदासन्नं पर्यटन्तो यल्लालाजालमभिमुञ्चन्ति तत् कृमिरागं पट्टसूत्रमुच्यते, तच्च रक्तवर्णकृमिसमुत्थत्वात् स्वपरिणामत एव रक्तं भवति । अन्ये त्वभिदधति-यदा तत्र शोणिते कृमयः समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्टिसं परित्यज्य रसो गृह्यते, । Jain Education International For Private & Personal Use Only ८९ www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy