________________
अनुयोगद्वारसूत्रम् [सू० २९]
७९
श्रमणोपासकः, श्राविका श्रमणोपासिका, वाशब्दा: समुच्चयार्थाः। तस्मिन्नेवाऽऽवश्यके चित्तं सामान्योपयोगरूपं यस्येति स तच्चित्तः । तस्मिन्नेव मनो विशेषोपयोगरूपं यस्य स तन्मनाः । तत्रैवलेश्या शुभपरिणामरूपा यस्येतिस तल्लेश्यः। तथा तदध्यवसितः, इहाध्यवसायोऽध्यवसितम्, ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवाऽऽवश्यकेऽध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः। तथा तत्तीव्राध्यवसानः, तस्मिन्नेवाऽऽवश्यके 5 तीव्र प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य स तथा। तथा तदर्थोपयुक्तः, तस्य आवश्यकस्यार्थस्तदर्थः, तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः प्रशस्ततरसंवेगविशुद्धयमानः, तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः । तथा तदर्पितकरण:, करणानि तत्साधकतमानि देह-रजोहरण-मुखवस्त्रिकादीनि, तस्मिन् आवश्यके यथोचितव्यापारनियोगेनाऽर्पितानि नियुक्तानि तानि येन स तथा, सम्यग् 10 यथास्थानन्यस्तोपकरण इत्यर्थः । तथा तद्भावनाभावितः, तस्य आवश्यकस्य भावना अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा तया भावितः अङ्गाङ्गिभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावितः। तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन् उपलक्षणत्वाद्वाचं कायं चान्यत्राकुर्वन्, एकार्थिकानि वा विशेषणान्येतानिप्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि।अमूनिचलिङ्गविपरिणामत:श्रमणी- 15 श्राविकयोरपि योज्यानि । तस्मात् तच्चित्तादिविशेषणविशिष्टाः श्रमणादय: उभयकालम् उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिकम्, भावमाश्रित्यभावश्चासावावश्यकंचेति वा भावावश्यकम् । अत्राप्यवश्यंकरणादावश्यकत्वं तदुपयोगपरिणामस्य च सद्भावाभावत्वं मुखवस्त्रिकाप्रत्युपेक्षण-रजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वाद् नोआगमत्वं भावनीयम् । सेतमित्यादि निगमनम्।
20 [सू० २९] तस्स णं इमे एगट्ठिया णाणाघोसा णाणावंजणा णामधेज्जाभवंति। तंजहाआवस्सयं १, अवस्सकरणिज्ज २, धुवणिग्गहो ३, विसोही य ४ । अज्झयणछक्कवग्गो५, नाओ६, आराहणा७, मग्गो८॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org